________________
लोकायतपरीक्षा
४४९ व्यतिरेकादपि कार्यनिश्चये-सत्सु तदन्येषु समर्थेषु तद्धेतुषु यस्यैकस्याभावे न भवतीत्येवमाश्रयणीयम्, अन्यथा हि केवलं तदभावे न भवतीत्युपदर्शने सन्दिग्धमत्र तस्य सामर्थ्यं स्यात्, अन्यस्यापि तत्र' समर्थस्याभावात्, ततश्चैवमपि सम्भाव्येत–अन्यदेव तत्र समर्थमस्ति, तदभावात् तन्निवृत्तः ।
यत्पुनरेतन्निवृत्तौ सत्यामस्य निवृत्तिरुपलभ्यते सा यदृच्छासंवादः । मातृविवाहोचितदेशजन्मनः पिण्डखर्जूरस्यान्यत्र देशे मातृविवाहाभावे सत्यभाववत्। तस्मात् समर्थेष्विति विशेषणीयम् । एवं हि तस्यैव कारणत्वं निश्चीयते; तद्व्यतिरेकस्यैवानुविधानात्। न ह्यनुपकारिणो व्यतिरेक: केनचिदनुविधीयते; अतिप्रसङ्गात् । एवमन्वयव्यतिरेकाभ्यामसन्दिग्धं कार्यकारणत्वं प्रतीयेत, नान्यथा । न चेदृशेऽन्वयो व्यतिरेको वा कायचित्तयोनिश्चितोऽस्ति। तथा हि-न तावत् स्वदेहबुद्ध्योरन्वयनिश्चयः शक्यते कर्तुम्; गर्भादौ प्राक् चित्तोत्पत्तेः केवलकायोपलम्भाभावात्, न हि चित्तमन्तरेणोपलम्भो भवति । परशरीरेऽपि चेतसोऽनुपलब्धिलक्षणप्राप्तत्वान्न पौर्वापर्यग्रहणमस्ति । ततो नान्वयनिश्चयः।
नापि व्यतिरेकनिश्चयः । तत्रापि हि न तावदात्मदेहव्यतिरेकेण स्वबुद्धिव्यतिरेको ज्ञातुं शक्यः; सर्वथा स्वयमभावात् । नापि परदेहव्यतिरेकेण तत्सम्बन्धिन्या बुद्धर्व्यतिरेको निश्चेतुं पार्यते; तबुद्धेरनुपलब्धिलक्षणप्राप्तत्वेन देहनिवृत्तावपि बुद्धिव्यतिरके संशयात्। अत एव कुट्यादौ देहाभावेऽपि नं बुद्धिव्यतिरेकनिश्चयः; 'तत्सत्तायामनुपलब्धिलक्षणप्राप्तत्वेन संशयात्। परिस्पन्दादिकार्यदर्शनादप्यभावनिश्चयो न युक्तः; नावश्यं कारणानां कार्यवत्त्वात् । - अपि च-देहविशेषपरिग्रहहेतोस्तृष्णाविषयात् सलक्षणस्य स्वकारणस्याभावात् किं तत्र कुट्यादौ बुद्धेरभावः, आहोस्विद् देहव्यतिरेकादिति संशयः। तस्मान्नासिद्धो हेतुः । मापि विरुद्धः; सपक्षे भावात् । नाप्यनैकान्तिकः; अतिप्रसङ्गात्, प्रेक्षावत्त्वहानिप्रसङ्गाच्च । तव तर्हि बुद्धेर्न देह: कारणमित्यत्र किं बाधकं प्रमाणमिति चेत् ? न; समस्त्येवं प्रमाणम् । तथा च-मनोमतेन देह: कारणमित्यत्र 'स्वतन्त्रा मानसी बुद्धिः' (तत्त्व० १९२९) इत्यादिना प्रमाणमुपदर्शयिष्यति; तस्या एव देहान्तरप्रतिसन्धानं प्रत्याधिपत्याद् देहानाश्रितत्वे सिद्ध परलोकसिद्धेः।
किञ्च-मनोमसेदेह: कारणं भवत्, एकोऽवयविरूपो वा भवेत्, अनेको वा परमाणुसञ्चयात्मकः, यद्वा सेन्द्रियः, अनिन्द्रियो वा, किमुपादानकारणम्, आहोस्वित् सहकारिकारणम्-इति विकल्पा: । तत्र न तावदेकोऽवयवी युक्तः; [G.527] तस्य पूर्वनिषिद्धत्वात्, चतुर्महाभूतात्मकत्वहानिप्रसङ्गाच्च । न ह्येकस्य स्वभावचतुष्टयं युक्तम्; अनेकव्यवहारोच्छेदप्रसङ्गात्। तस्मादनेकपरमाणुसञ्चयात्मकोऽङ्गीकर्तव्यः ।
ते च परमाणवः प्रत्येकं वा हेतवः स्युः, समुदिता वा? न तावत् प्रत्येकम्; प्रतिबीजाङ्करोत्पादवत् प्रतिपरमाणु विकल्पोत्पत्तिप्रसङ्गात्। नापि समुदिताः; नासिकाद्येका१. तत्-पा०, गा०।
२. तत्रापि तत्सत्ता-पा०, गा०। ३. ०कार्यादर्श०-गा। ४. नावश्यं हि-गा०। ५. कार्यवत्त्वम्-गा० ।
६. विकल्प्यते-पा०, गा० । ७. न तस्यादनेक०-पा०, न च तस्यादनेक०-गा।