________________
तत्त्वसंग्रहे
आकाशाम्भोरुहपङ्क्तिवदिति, न तस्या अवस्थाविशेषे परलोकव्यवस्थास्माभिः क्रियते । अथास्या एव विज्ञानादिसन्ततेः परलोकसंज्ञितायाः प्रतिषेधः क्रियते ? तदा तस्यास्तावत् स्वरूपनिषेधद्वारेण परलोकनिषेधो न शक्यते कर्तुम्; दृष्टस्यापह्नोतुमशक्यत्वात् किं तर्हि ? अनाद्यनन्तत्वधर्मनिषेधद्वारेण ।
सा चेयमनाद्यनन्ता कथं न सिध्यति ? यदि यत्तज्जन्मचित्तमाद्यतया मतम्, निर्हेतुकं वा स्यात् ? नित्यविज्ञानेश्वरादिहेतुसमुद्भूतं वा ? यद्वा- स्वत एव नित्यम् ? भूतमात्रादुत्पन्नं वा ? [G.525] अन्यसन्तानवर्त्तिज्ञानहेतुकं वा ? - इति पञ्च पक्षाः । यदि हि स्वसन्तानवर्त्तिपूर्वज्ञानेहेतुकं पूर्वमेव चित्तं स्यात्, अनादिता चित्तसन्ततेः, नान्यथा - इत्यभिप्रायेणैषां पक्षाणामुपन्यासः ।
४४८
तत्र न तावदाद्यः पक्षः; नित्यसत्त्वादिप्रसङ्गात् । अपेक्षया हि भावाः कादाचित्का भवन्ति । यश्च निर्हेतुकः स न किञ्चिदपेक्ष्यत इति किमिति विरमेत् ! नापि द्वितीयपक्षः; अत एव नित्यसत्त्वप्रसङ्गात् । कारणवैकल्याद्धि कार्याणामसत्त्वम्, यच्चाविकलकारणं तत्किमिति न भवेदिति वक्तव्यम् ! नापि तृतीयः पक्षः; कस्मात् ? तदभावत: सदा सत्त्वाभावतः । एकमित्यादिना तमेव तदभावं दर्शयति । अनेन प्रतिज्ञायाः प्रत्यक्षे विरोधमाह । .
क्षोणीत्यादिना चतुर्थं पक्षं निराकरोति । क्षोणी = पृथिवी । नित्येश्वरादिहेतुसमुद्भवपक्षवदत्रापि तुल्यो दोषः; यतो महाभूतंचतुष्टयं परैर्नित्यमिष्टम् । न च ' सहकारिकारणापेक्षणानुक्रमेण नित्यादुत्पत्तिः' इति युक्तं वक्तुम्; नित्यस्यानुपकारिणि सहकारिणि नापेक्षा - इति निर्लोठितप्रायत्वात् ॥ १८७७-१८८४ ।।
अथ
क्षणिकमेवेदं
परैरप्यभिधीयते । कथं स्वोपगमस्तेषामेवं सति न बाध्यते ? ॥ १८८५ ॥ बाध्यतां काममेतत् तु न्याय्यमित्युपगम्यते । क्षणिकं सर्वयुक्तिभ्यः सर्वभावविनिश्चितम् ॥ १८८६ ॥
अथेदं महाभूतचतुष्टयं परैः चार्वाकै: क्षणिकमभ्युपगम्यते यथोक्तदोषभयात्, तदापि दोष एवेत्यभिप्रायः । तथा हि-न तावद् बुद्धिदेहयोः कार्यकारणभावसिद्धौ किञ्चित् प्रमाणमस्ति न तत्र तद्व्यवहारः प्रेक्षावता कार्य:, यथा वह्नौ शीतव्यवहारः । नास्ति च बुद्धिहयोः कार्यकारणभावसिद्धौ किञ्चित् प्रमाणमिति व्यापकानुपलब्धिः ।
न चासिद्धता हेतो:, तथा हि- प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः । स चान्वयाद्, व्यतिरेकाद्वा विशिष्टादेव निश्चीयते; न दर्शनादर्शनमात्रेण । तत्रान्वयात् कार्यनिश्चये कर्त्तव्ये येषामुपलम्भे सत्युपलब्धिलक्षणप्राप्तं पूर्वमनुपलब्धं सदुपलभ्यत इत्येवमाश्रयणीयम् । अन्यथा हि यद्युपलब्धिलक्षणप्राप्तमनुपलब्धमित्येवं नापेक्षेत; तदा तत्र कार्यस्य प्रागपि सत्त्वम्, अन्यतो वा देशादपगमनम् । येन कारणात् प्रागवस्थिताः कुट्यादयस्तेषां कांरणता न निषिद्धा स्यात् । उपलब्धिलक्षणप्राप्तानुपलम्भोपदर्शने [G.526] तु सा निषिद्धा भवति; तस्या व्यभिचारात् । एवं तावदन्वयात् कार्यनिश्चयः ।
१. देशेऽपगमनम् पा०; दे गेऽपगमनं सम्भाव्येत गाव/