________________
लोकायतपरीक्षा
४४७ सामस्त्येन प्रकाश्यन्ते लाघवाय वनादिवत् ॥१८६७॥ तत्र कोऽयं परलोको नाम, यस्य भवता निषेधः क्रियते? किं विज्ञानादिस्कन्धचतुष्टयादुपादानोपादेयत्वेन कार्यकारणभूतादन्यः? आहोस्वित्तदेव? न तावदाद्यः पक्षः; तस्यानभ्युपेतत्वात्। न ह्यपादानोपादेयभूताया विज्ञानादिसन्ततेरन्यः परलोकोऽत्रास्ति, यस्याभ्युपगम: स्यात् । किं तर्हि ? तस्या ज्ञानादिसन्ततेरनाद्यनन्तायाः काचिदेव वर्षशताद्यवधिरूपमर्यादाव्यवस्थैव परलोकः, पूर्वः, इहेति वा व्यवस्थाप्यते। यथा भवद्भिर्दृष्टमात्रसुखाभिषङ्गादेतावतीन्द्रियगोचर एवान्यदेशादिः परलोकादित्वेन कल्प्यते । यथोक्तम्- "एतावानेव पुरुषो यावानिन्द्रियगोचरः" ( ); तथा "पुनरुक्तदेशान्तरं कालान्तरमवस्थान्तरं वा परलोकः" ( ) इति । यदि तु कार्यकारणभूतविज्ञानादिसन्तानव्यतिरिक्तस्य परलोकस्य निषेधः क्रियते, तदा सिद्धसाध्यत्वात् साधनवैफल्यम्; तथाभूतस्य परलोकस्यानभ्युपगतत्वात्।
ननु च सन्ततेरवस्तुत्वात्तस्यामवस्थाविशेषो यो व्यवस्थापितः सोऽप्यवस्त्वेव, ततश्च तत्र तस्यां सन्तताववस्थाविशेषेऽवस्थापितोऽयं परलोकोऽपि न पारमार्थिक: स्यात् ? नैष दोषः; सन्ततिशब्देन क्षणा एव वस्तुभूताः [G.524] सन्तानिनो व्यवहारलाघवाय सामस्त्येन युगपत् प्रकाश्यन्ते, वनादिशब्देनेव धवादयः ॥ १८७१-१८७६ ॥
कथं तर्हि सन्ततेरवस्तुत्वं पूर्वमुक्तम्- "सन्तानादीव कारित्रम्' (तत्त्व० १८०६). इत्यत्र प्रस्तावे? इत्याह
एक्वेनावक्तृप्तत्वानिःस्वभावतया मता। तत्त्वान्यत्वाद्यनिर्देश्या वियत्कमलपङ्क्तिवत् ॥ १८७७॥ सा चानादिरनन्ता च न सिद्धिं कथमृच्छति। यद्यहेतुकमेतत् सा' चित्तमाद्यतया मतम् ॥ १८७८॥ नित्यहेतुसमुद्भूतं नित्यं सत् स्वत एव वा। भूतमात्रोद्भवं वाऽपि यद्वाऽन्यज्ञानमात्रजम् ॥१८७९॥ गर्भादावादिविज्ञानं तत्राहेतु न युज्यते।
कादाचित्कतया सत्त्वं सर्वथास्यान्यथा भवेत् ॥१८८०॥ .... नाशि नित्यमन:कालदिगीशात्मादिभिः कृतम्।
तत एव सदा सत्त्वप्रसङ्गात् तदभावतः॥१८८१॥ एकं नित्यस्वभावं च विज्ञानमिति साहसम्। रूपशब्दादिचित्तानां व्यक्तं भेदोपलक्षणात् ॥१८८२॥ क्षोणीतेजोजलादिभ्यो भूतेभ्यो भूतिरस्य न। व्यक्तिर्वा सर्वचित्तानां यौगपद्यप्रसङ्गतः ॥१८८३॥ स्थिररूपं परैरिष्टं तद्धि भूतचतुष्टयम्।
सहकारिव्यपेक्षाऽपि स्थिरे पूर्वमपाकृता ॥१८८४॥ या त्वेकत्वेन कल्पिता सन्ततिः सा तत्त्वान्यत्वाभ्यामवाच्यत्वादवस्तुत्वेनाभिमता,
. स्थिररूप
१. स्यात्-पा०. गा०/