________________
४४६
तत्त्वसंग्रहे ज्ञानाधारश्च भावस्य; विज्ञानप्रबन्धस्यात्मनो वा तदानीमसत्त्वात्। ततश्चान्ते मरणावस्थायां देहस्याश्रयस्य निवृत्तौ निराश्रयं कथं ज्ञानमवतिष्ठतेति सिद्धोऽनागतजन्माभावः ।। १८६४१८६७॥
तदनन्तरसम्भूतदेहान्तरसमाश्रया' ।
यदि देहोऽपरो दृष्टः कथमस्तीति गम्यते ॥१८६८॥ . __ अथापि स्यात्-मरणसमनन्तरसमुद्भूतमन्तराभविकं देहमाश्रित्य चित्तवृत्तिर्भविष्यतीति ? तदेतदसम्यक्; न हि मरणानन्तरमरो देह उत्पद्यमानो दृष्टः । न चादृष्टस्यास्तित्वनिश्चयो युक्तः; तस्यासद्व्यवहारविषयत्वात् ॥ १८६८॥ . . . .
भिन्नदेहप्रवृत्तं च गजवाज्यादिचित्तवत्। .'
एकसन्ततिसम्बद्धं तद् विज्ञानं कथं भवेत् ? ॥१८६९॥ न चैकसन्तानवर्त्तिनश्चेतसो देहान्तरसमाश्रयणं युक्तम्, गजवाज्यादिचित्तंवदेकसन्तानसम्बन्धित्वहानिप्रसङ्गात् । प्रयोगः-यद्भिनदेहप्रवृत्तं विज्ञानं न तदेकसन्तानसम्बद्धम्, यथा गजवाजिनोश्चित्तम्। भिन्नदेहवृत्तं चान्तराभवमरणभवयोश्चित्तमिति व्यापकविरुद्धोपलम्भप्रसङ्गः । न चैवम्, तस्माद्विपर्ययः-यदेकसन्तानसम्बद्धं तद्भिन्नेदेहप्रवृत्तं न भवति, यथा गजचित्तमश्वदेहानाश्रितम्। एकसन्तानसम्बद्धं च प्राणिनश्चित्तमिति विरुद्धठ्याप्तोपलब्धिः; भिन्नदेहप्रवृत्तत्वविरुद्धेनाभिन्नदेहप्रवृत्तत्वेनैकसन्तानसम्बद्धत्वस्य व्याप्तत्वात् ॥ १८६९ ॥
एको ज्ञानाश्रयस्तस्मादनादिनिधनो नरः।।
संसारी कश्चिदेष्टव्यो यद्वा नास्तिकता परा ॥१८७०॥ एक इत्याधुपसंहारः । आदि-उत्पादः, निधनम् नाशः, न विद्येते आदिनिधने [G.523] यस्यासावनादिनिधनः। नर इत्यात्मा। यद्वा वास्तिकता परेत्यनेन "परलोकिनोऽभावात् परलोकाभावः" (बा० सू० १७) इत्येतत् सूत्रं सूचयति ॥ १८७० ॥ तदक्रेत्यादिना प्रतिविधते
तदत्र परलोकोऽयं नान्यः कश्चनं विद्यते। उपादानतदादेयभूतज्ञानादिसन्ततेः । ॥१८७१॥ काचिनियतमर्यादाऽवस्थैव . परिकीर्त्यते। तस्याअनाद्यनन्तायाः२ परः पूर्व इहेति च ॥१८७२॥ दृष्टमात्रसुखासक्तैर्यथैतावति कल्प्यते। परलोकोऽन्यदेशादिस्तथाऽत्रास्माभिरुच्यते ॥१८७३॥ यदि तद्व्यतिरिक्तस्तु परलोको निषिध्यते। तदा साधनवैफल्यं तदसत्त्वे विवादतः ॥१८७४॥ 'सन्ततेर्नन्ववस्तुत्वान्नावस्थान्तरसम्भवः । तत्रावस्थापितो लोकः परो वा तात्त्विकः कथम् ॥१८७५ ॥
नैव सन्ततिशब्देन क्षणाः सन्तानिनो हि ते। १. समाश्रयः-पा०, मा०।,
२-२. तस्याश्चाना-पा०, गा०।