________________
लोकायतपरीक्षा
४४५
[G.521] अपि च-यद्यतीतदेहवर्त्तिनश्चेतसः प्रथमजन्मचित्तं प्रति कारणभावः स्यात्, मरणचित्तस्य चागामिचित्तं प्रति; तदा चित्तप्रतिबन्धानुपरमात् परलोककल्पना स्यात् । प्रथमयोस्तावद् विवादास्पदी भूतयोश्चेतसोर्न कार्यकारणताऽस्ति; भिन्नदेहवर्त्तित्वात्, गवाश्ववर्त्तिनोरिव ज्ञानयोः ।
अथ वा- - जन्मबुद्धयो धर्मिण्यः, तासामतीतदेहवर्त्तिचरमविज्ञानजन्यत्वप्रतिषेधः साध्यः, ज्ञानत्वादिति सामान्यं हेतुः, अन्यसन्तानवर्त्तिन्यो बुद्धयो निदर्शनम् । प्रयोगस्त्वेवम्यदि ज्ञानम्, न तद् विवक्षितातीतदेहवर्त्तिचरमज्ञानजन्यम्; ज्ञानत्वात्, यथाऽन्यसन्तानवर्त्ति ज्ञानम् । ज्ञानरूपाश्चेमा विवक्षितदेहवर्त्तिन्यो जन्मबुद्धय इति विरुद्धव्याप्तोपलब्धिः ; विवक्षितविज्ञानजन्यविरुद्धेन' ज्ञानत्वस्य व्याप्तत्वात् ॥ १८६०-१८६१ ॥
एवं तावदतीतजन्मनिषेधः कृतः । साम्प्रतमनागतजन्मनिषेधायाहसरागमरणं चित्तं न चित्तान्तरसन्धिकृत् ।
मरणज्ञानभावेन वीतक्लेशस्य तद् यथा ॥ १८६२ ॥
सरागस्य मरणचित्तं चित्तान्तरं न प्रतिसन्धत्ते; मरणचित्तत्वात् । अर्हच्चरमचित्तवदिति व्यापकविरुद्धोपलब्धिः । वीतक्लेशस्य तद्यर्थेति । मरणज्ञानम् ॥ १८६२ ॥ कुतस्तर्हि चित्तस्योत्पत्तिः ? इत्याह
'कायादेव ततो ज्ञानं प्राणापानाद्यधिष्ठितात् ।
युक्तं जायत' इत्येतत् कम्बलाश्वतरोदितम् ॥ १८६३ ॥ तथा च सूत्रम् - " कायादेव" ( ) इति । कम्बलाश्वतरोदितमिति ॥ १८६३ ॥ ननु च कायानिष्पत्तावपि कललाद्यवस्थायां विज्ञानमस्त्येव मूर्च्छितम्, तच्चातीतभेदविज्ञानजन्यतयां सिद्ध चित्तम्, तत् कथं कायादेवेति नियमः ? इत्याहकललादिषु विज्ञानमस्तीत्येतच्च साहसम् । असञ्जातेन्द्रियत्वाद्धि न तत्रार्थोऽवगम्यते ॥ १८६४ ॥ न चार्थावगतेरन्यद् रूपं ज्ञानस्य युज्यते । मूर्च्छादावपि तेनास्य सद्भावो नोपपद्यते ॥ १८६५ ॥ न चापि शक्तिरूपेण तथा धीरवतिष्ठते । निराश्रयत्वाच्छक्तीनां स्थितिर्न ह्यवकल्पते ॥ १८६६ ॥ ज्ञानाधारात्मनोऽसत्त्वे देह एव तदाश्रयः ।
अन्ते देहनिवृत्तौ च ज्ञानवृत्तिः किमाश्रया ॥ १८६७ ॥ [G.522] इन्द्रियार्थो हि विज्ञानोत्पत्तेः कारणम् ; अर्थाधिगमरूपत्वाज्ज्ञानस्य । कललाद्यवस्थायां चेन्द्रियार्थयोरभावात् कथं तत्कार्यं विज्ञानं स्यादिति कारणानुपलब्ध्या मूर्च्छाद्यवस्थायां विज्ञानाभावः सिद्ध इति समुदायार्थः । न च शक्तिरूपेण तदा विज्ञानमस्तीति कल्पयितुं युक्तम्; ज्ञानाश्रयस्यात्मनो नैयायिकादिप्रकल्पितस्य विज्ञानप्रबन्धस्य वा तदानीमभावात् । न च निराश्रया शक्तिर्युक्ता । तस्मात् सामर्थ्याद्देह एव तदानीमाश्रयः अन्यस्य ज्ञानाधारात्मनः, २-२. पा०, गा० पुस्तकयोर्नास्ति ।
१. ० ज्ञानजन्यत्व०- गा० ।