________________
२२. लोकायतपरीक्षा "अनाद्यन्तम्" (तत्त्व०४) इत्येतत्समर्थनार्थं चोद्योपक्रमपूर्वकमाह
यदि नानुगतो भावः कश्चिदप्यत्र विद्यते।
परलोकस्तदा न स्यादभावात् परलोकिनः ॥१८५६॥ [G.520] कश्चिदिति आत्मादिः। तत्रात्मनः पूर्वं प्रतिषिद्धत्वादभावादेव नानुगामित्वम्; विज्ञानादीनां च क्षणिकत्वात्, त्रैकाल्यपरीक्षायां चान्वयस्य निषिद्धत्वान्नान्वयः ॥ १८५६ ॥ न च देहादयः परलोकिनो भविष्यन्ति? इत्याह- ...
देहबुद्धीन्द्रियादीनां प्रतिक्षणविनाशने। . न युक्तं परलोकित्वं नान्यश्चाभ्युपगम्यते ॥ १८५७॥ तस्माद् भूतविशेषेभ्यो यथा शुक्तसुरादिकम् । ....
तेभ्य एव तथा ज्ञानं जायते व्यज्यतेऽथ च ॥१८५८॥ आदि-शब्देन वेदना-संज्ञा-संस्काराणां ग्रहणम्। नान्यश्चाभ्युपगम्यतइति। आत्मा। तल्लोकायतपक्षानुलोमनमेव ज्ञातम् । तथा हि तस्यैतत् सूत्रम्-‘परलोकिनोऽभावात् परलोकाभावः' (बा० सू० १७) इति । तथा हि-"पृथिव्यापस्तेजोवायुरिति चत्वारि तत्त्वानि" (बा० सू० २)"तेभ्यश्चैतन्यम्" (बा० सू०३) इति। तत्र केचिद् वृत्तिकारा व्याचक्षतेउत्पद्यते तेभ्यश्चैतन्यम्। अन्ये-अभिव्यज्यत इत्याहुः । अत: पक्षद्वयमाह-जायते व्यज्यतेऽथ चेति । शुक्तम् अम्बत्वम्। सुरेति मदजननशक्तिः ।आदिशब्देन मूर्छादिजननसामर्थ्यपरिग्रहः ॥ १८५७-१८५८॥
ननु“चक्षुरादीनि विषयांश्च रूपादीन् प्रतीत्य विज्ञानमुत्पद्यते"( ) इत्यतिप्रतीतमेतत्, तत्कथमुच्यते- तेभ्य एव विज्ञानम्? इत्याह
सन्निवेशविशेषे च क्षित्यादीनां निवेश्यते।
देहेन्द्रियादिसंज्ञेयं तत्त्वं नान्यद्धि विद्यते ॥ १८५९॥ तथा च तेषां सूत्रम्-"तत्समुदाये विषयेन्द्रियसंज्ञा" ('बा० सू०२) इति। न हि महाभूतव्यतिरेकेणेन्द्रियादीनि सन्ति; तत्संस्थानविशेष एव तत्प्रज्ञप्तेः । न च संस्थानं नामान्यत् संस्थानिभ्यः। इदं च महाभूतचतुष्टयं प्रत्यक्षसंसिद्धम्। न चैतव्यतिरेकेणान्यत्तत्त्वमस्ति प्रत्यक्षसिद्धम्। न च प्रत्यक्षादन्यत् प्रमाणमस्ति, येनान्यस्य परलोकादेः संसिद्धिः स्यात् ॥१८५९॥
कार्यकारणता नास्ति विवादपदचेतसोः । विभिन्नदेहवृत्तित्त्वाद् गवाश्वज्ञानयोरिव ॥ १८६०॥ . न विवक्षितविज्ञानजन्या वा मतयो मताः ।
ज्ञानत्वादन्यसन्तानसम्बद्धा इव बुद्धयः ॥१८६१॥ १. तु-पा०, गा०।
२. वा-पा०, गा०। ३. जातम्-गा।
४. ०वेति-पा०, गा०।