________________
त्रैकाल्यपरीक्षा
४४१ हेतवो हि पूर्वोक्ता अध्वसंगृहीतत्वादित्यादय आश्रयासिद्धाः, अतीतादेर्धर्मिणोऽसिद्धत्वात्। [G.517] यथाह-"नासिद्धे भावधर्मोऽस्ति" (प्र० वा० ३.१९०) इति । अथापि सिद्धाः स्युः, तथापि वर्तमानत्वसिद्धधर्मस्वरूपविपरीतसाधनाद् विरुद्धा हेतवः ॥ १८४२ ॥
कथमिदानीमध्वसंगृहीतत्वमतीतानागतानां रूपादीनां निर्दिष्टम्, न हि श्शविषाणमत्यन्तासदतीतमनागतं वा व्यवस्थाप्यते? इत्याह
भूत्वा यद् विगतं रूपं तदतीतं प्रकाशितम्। सति प्रत्ययसाकल्ये भावि यत् यदनागतम्॥१८४३॥ सत्त्वे तु वर्तमानत्वमासज्येतेति साधितम्।
विद्यमानत्वमात्रं हि वर्तमानस्य लक्षणम्॥१८४४॥ सुबोधम्॥ १८४३-१८४४॥ रूपवेदनादिभावस्तर्हि कथं निर्दिष्टः? इत्याह
रूंपादित्वमतीतादेर्भूतां तां भाविनीं तथा।
अध्यारोप्य दशामस्य कथ्यते न तु भावतः॥१८४५॥ तां दशामिति तामवस्थाम् .॥ १८४५ ॥ व्याश्रयं तर्हि कथं विज्ञानमुक्तम्? इत्याह
द्वयं प्रतीत्य विज्ञानं यदुक्तं तत्त्वदर्शिना।
सेष्टा सविषयं चित्तमभिस्नधाय देशना ॥१८४६॥ द्विविधं हि विज्ञानम्-सालम्बनम्, अनालम्बनं च। यत्सालम्बनं तदभिसन्धाय व्याश्रयविज्ञानदेशना भगवतः ॥ १८४६ ॥ .
अथ निरालम्बनमपि ज्ञानमस्तीति कथमवसितम्? इत्याह. नित्येश्वरादिबुद्धीनां नैवालम्बनमस्ति हि।
शब्दानामादिधर्माणां तदाकारवियुक्तितः॥१८४७॥ 'आदिशब्देन प्रधानकालादयः परिकल्पिता गृह्यन्ते। न चैतन्मन्तव्यम्-'शब्दाद्यालम्बना इमा बुद्धयः' इति, कथयति-शब्दानामादीत्यादि। तस्येश्वरादेराकारो नित्यत्वसकलहेतुत्वादिः, यस्तयां बुद्ध्याऽध्यवसीयते, तेनाकारेण वियोगः शब्दस्य नाम्नो वा विप्रयुक्तसंस्कारविशेषस्य। आदिशब्देन निमित्तादेः परोपगतस्यार्थप्रतिबिम्बनकादिस्वभावस्य ॥ १८४७॥
यदि तर्हि निर्विषयमपि विज्ञानमस्ति, तत् कथं ज्ञानमिति व्यपदिश्यते, तथा हि [G.518] 'विजानातीति विज्ञानम्' इति गीयते, असति च विज्ञेये किं विजानत: विज्ञानं स्यात् ? इत्याह
बोधानुगतिमात्रेण विज्ञानमिति चोच्यते।
सा चास्याजडरूपत्वं.प्रकाश्यात् परिकल्पितम् ॥१८४८॥ बोधानुगमोऽपि विना बोधेन न सम्भवतीति चेद् ? इत्याह-सा चेति। सा= १. पा०, गा० पुस्तकयो स्ति। २. पा० पुस्तके नास्ति।
३. आह-पा०, गा०॥