________________
तत्त्वसंग्रहे
. बोधानुगतिः । अस्य = विज्ञानस्य । किमुच्यते ? यत्तद जडरूपत्वम्, प्रकाश्यवस्त्वन्तराभावात् प्रकाशान्तविरहाच्च नभोवर्त्यालोकवत् प्रकाशरूपत्वादभिधीयते बोधरूपतेति ॥ १८४८ ॥ कर्मातीतं च कथं फलदम् ? इत्यत्राह
विपाकहेतुः फलदो नातीतोऽभ्युपगम्यते ।
तद्वासितात् तु विज्ञानप्रबन्धात् फलमिष्यते ।। १८४९ ॥
४४२
वासितम्=परम्परया फलोत्पादनसमर्थमुत्पदितम् ॥ १८४९ ॥
यद्येवम्, कथमुक्तं भगवता - ' अस्ति तत्कर्म यत्क्षीणं निरुद्धं विपरिणतम् ' ( ) इति ? आह
तामेव वासनां
चेतःसन्ततावधिकृत्य तत्।
अस्ति कर्मेति निर्दिष्टं भक्त्या मूलाविनाशवत् ॥ १८५० ॥
भक्त उपचारेण । यथा मूलद्रव्यप्रसूतस्य हिरण्यादेः फलप्रबन्धस्य समभावे ' विनष्टमपि मूलद्रव्यमविनष्टमित्युच्यते, तद्वत् कर्मापि ॥ १८५० ॥ उपचारेण देशनायाः किं प्रयोजनम् ? इत्याह
उच्छेददृष्टिनाशाय चैवं शास्त्रा प्रकाशितम् ।
अन्यथा शून्यतासूत्रे देशना नीयते कथम् ! ॥ १८५१ ॥ ‘नास्त्यतीतं कर्म' इत्युक्ते पारम्पर्येण यत्फलोत्पादनसामर्थ्यमाहितमतीतेन कर्मणा, तस्याप्यभावं प्रतिपद्येरन्-इत्युच्छेददृष्टिमापन्नाः स्युर्विनेया इति 'अस्ति कर्म' इत्युक्तं भगवता । अन्यथा हि यद्यतीतं स्वरूपेण स्यात्, तदा परमार्थशून्यतासूत्रे देशना कथं नीयते"चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति, निरुद्ध्यमानं न क्वचित् सन्निचयं गच्छतीति हि चक्षुरभूत्वा भवति भूत्वा च प्रतिविगच्छति" ( ) इति । वर्त्तमानेऽध्वन्यभूत्वा भवतीति चेत् ? न; अध्वनो भावानर्थान्तरत्वात् तत एवाध्वानस्तथावस्थितिवचनात् । अथ [G.519] स्वात्मन्यभूत्वा भवति, तदा सिद्धम् - अनागतं चक्षुर्नास्तीति । अपि च- सदाऽवस्थितत्वे संस्काराणां हेतुफलयोरभावात् दुःखसमुदयसत्याभाव:, तदभावान्निरोधमार्गयोरपि ; ततश्च सत्यचतुष्टयाभावात् परिज्ञाप्रहाणसाक्षात्क्रियाभावना न युज्यन्ते, तदभावाच्च फलस्थानां प्रतिपन्नकानां च पुद्गलानामभाव इति संकलमेव प्रवचनं निरुध्यत इति नातीतादिवस्तु-जातकल्पना साध्वी ॥ १८५१ ॥
'अतीतानागतं ज्ञानं विभक्तं योगिनां कथम् ?" (तत्त्व० १७८८) इत्यत्राहपारम्पर्येण साक्षाद् वा कार्यकारणतां गतम् ।
यद्रूपं वर्त्तमानस्य तद्विजानन्ति योगिनः ॥ १८५२ ॥ अनुगच्छन्ति पश्चाच्च विकल्पानुगतात्मभिः । शुद्धलौकिकविज्ञानैस्तत्त्वतोऽविषयैरपि तद्धेतुफलयोर्भूतां भाविनीं चैव सन्ततिम् " ।
॥ १८५३ ॥
""
१. सभावे - पा० ।
४-४. ० नागतज्ञानं पा०, गा० ।
२. त पा०, गा० ।
५. सन्नतिम् — पा०, गा० ।
३. तथा पा०, गा० ।