________________
४४०
तत्त्वसंग्रहे वर्तमानस्य भावस्य लक्षणं नान्यदस्ति च ॥१८३८॥ अतीतानागतानां च तदखण्डं समस्ति वः। ।
तत्कि न वर्तमानत्वममीषामुनषज्यते॥१८३९॥ न चायमनैकान्तिकः; यतो वर्तमानत्वनिवृत्तौ नष्टाजातानां सर्वसामर्थ्यवियोगित्वं प्रसज्येत, आकाशाम्भोरुहवत्। प्रयोगः-ये वर्तमाना न भवन्ति ते क्वचित् समर्था अपि न भवन्ति, यथा व्योमाम्भोरुहम्। न भवन्ति चातीतादयो वर्तमाना इति व्यापकानुपलब्धिः । न चाकाशप्रतिसङ्ख्यानिरोधाप्रतिसङ्ख्यानरोधैरसंस्कृतैरनेकान्तः; तेषामपि पक्षीकरणात्। अतोऽनैकान्तिकत्वकल्पनाया नातिनिबन्धनम्। तथा हि-येयं प्रतिनियतार्थक्रियाशक्तिर्भावानाम्, [G.516] सा प्रत्ययोद्भवेत्यङ्गीकर्तव्यम्। अन्यथा यदि निर्हेतुका स्यात्, तदा नियमहेतोरभावात् प्रतिनियता शक्तिर्भावानां न स्यात्। ततश्च सर्वं सर्वस्मिन् कार्ये उपयुज्येत । तस्मात् कृताकाशादीनां सामर्थ्यनियमो न युक्त इति न तैरनैकान्तिकत्वकल्पनाया निबन्धनम्। न च प्रथमे हेतौ सन्दिग्धविपक्षवृत्तिकता'; यस्मानियतायामर्थक्रियायां या शक्तिस्तस्या यदेतज्जन्म हेतुप्रत्ययनिर्मितं तदेव वर्तमानस्य लक्षणम्। एतच्च वर्तमानत्वलक्षणमविकलमतीतादिष्वप्यस्तीति निमित्तान्तराभावात् किमित वर्तमानता न प्रसज्यते ! ॥ १८३४-१८३९ ॥
- स्वर्गापवर्गसंसर्गयनोऽयमफलस्ततः । __ईहासाध्यं न किञ्चिद्धि फलमत्रोपलक्ष्यते॥१८४०॥
किञ्च–यस्यातीतानागतं द्रव्यतोऽस्ति, तस्य फलमपि नित्यमस्तीति स्वर्गापवर्गप्राप्त्यर्थो यत्नो विफल: स्यात्, ईहासाध्यस्य कस्यचित् फलस्याभावात् किं तत्र व्रतनियमादिलक्षणाया ईहायाः सामर्थ्यं स्यात् । उत्पादने सामर्थ्यमिति चेत् ? उत्पादनं त_भूत्वा भवतीति सिद्धम् ! अथ तदप्यस्ति? कस्येदानी क्व सामर्थ्यम्! वर्तमानीकरणसामर्थ्यमिति चेत् ? किमिदं वर्तमानीकरणं नाम! देशान्तराकर्षणं चेत् ? नित्यं तर्हि वस्तु प्रसक्तम्; सर्वदाऽवस्थितत्वात्। अरूपाणां वेदनादीनां निष्क्रियत्वात् कथमाकर्षणं भवेत्! यच्च तदाकर्षणम्, तदभूत्वा भवतीति सिद्धम् । स्वर्गः-सुमेरुपृष्ठादिः, अपवर्ग=मोक्षः, तयोः प्राप्तिः-संसर्गः, यत्र यत्नः-व्रतनियतादिः ॥ १८४०॥
अथ नार्थे क्रियाशक्तिस्तेषामभ्युपगम्यते।
यद्येवमत एवैषामसत्त्वं व्योमपुष्पवत्॥१८४१॥ अथ नार्थे क्रिया समर्था इति द्वितीयपक्ष आश्रीयते । एवं तत एवार्थक्रियाशून्यत्वादसत्त्वं प्राप्नोति, खपुष्पवत्; सर्वसामर्थ्यविवेकलक्षणत्वादसत्त्वस्य ॥ १८४१ ॥
एवं तावदतीतानागतानामसत्तासाधकं प्रमाणमभिधाय सत्तासाधकं प्रमाणमपाकतुमाह
हेतवो भावधर्मास्तु नासिद्धे सिद्धभागिनः।
वर्तमानत्वसिद्धेर्वा विरुद्धा धर्मिबाधनात्॥१८४२॥ १. अकृता०-गा।
२. विपक्षयावृत्तिकता- जै०। ३. प्रत्ययनिमित्तं- जै०। ४. पा० पुस्तके नास्ति।
५-५. नार्थक्रिया०-पा०, गा०। ६-६. नार्थक्रिया-पा०, गा०॥