________________
त्रैकाल्यपरीक्षा
४३९ तेषामपि सदावस्थितत्वात्। ततश्चातीतानागतावस्थयोर्जात्यादिभिर्जननादिस्वकार्यकारणाद् एकस्मिन्नेवाध्वन्यपरिमिताध्वप्रसङ्गः ॥ १९२८-१८२९ ॥
किचातीतादयो भावाः क्षणिकाः स्युन वा यदि। आद्याः, पुनस्तयोः प्राप्ता सैवापरिमिताध्वता॥१८३०॥ यः क्षणो जायते तत्र वर्तमानो भवत्यसौ।
उत्पद्य यो विनष्टश्च सोऽतीतो भाव्यनागतः॥१८३१॥ अपि च-अतीतानागताः क्षणिका वा स्युः, न वा क्षणिका इति पक्षद्वयम्। तत्र यद्याधाः, क्षणिका इति यावत्, तदा सैवामिताध्वता प्राप्ता। यः क्षण इति तामेव दर्शयति ॥ १८३०-१८३१॥
अथाप्यक्षणिकास्ते स्युः कृतान्तस्ते विरुध्यते।
'क्षणिकाः सर्वसंस्काराः' सिद्धान्ते हि प्रकाशिताः॥१८३२॥ अथाक्षणिका इति पक्षः, एवं सति कृतान्तविरोधः । कृतान्तः सिद्धान्त उच्यते। तथा हि "क्षणिकाः सर्वसंस्काराः" इति सिद्धान्तः ॥ १८३२॥
युक्तिबाधार्पि-सन्तश्चेन्नियमात् क्षणभङ्गिनः।
वर्तमाना इव प्राक् तु प्रतिबन्धोऽस्य' साधितः॥१८३३। [G.515] किञ्च-न केवलं सिद्धान्तविरोधः, अनुमानविरोधोऽपि प्रतिज्ञायाः। तथा हि-. यत्सत्तत् सर्वं क्षणिकम्, यथा वर्तमानम्। सन्तश्चातीतानागता इति नियमात् क्षणभङ्गिनः प्राप्ताः । प्राक्तु क्षणभङ्गाधिकारे। प्रतिबन्धोऽस्य हेतोः प्रसाधित इति नानैकान्तिकत्वम्। तथा हि-अर्थक्रियाकारित्वं सत्त्वलक्षणम्, अक्षणिकस्य च क्रमयोगपद्याभ्यामर्थक्रियाविरोधादर्थक्रियानिवृत्तौ तल्लक्षणस्य तत्त्वस्य निवृत्तिरिति साध्यविपक्षानिवृत्तं सत्त्वम् ॥ १८३३॥
...... अर्थक्रियासमर्थाः स्युरतीतानागता इमे। ... नवा सामर्थ्यसद्भावे वर्तमानास्तदन्यवत्॥१८३४॥
किञ्च-इमेऽतीतानागता अर्थक्रियासमर्था वा स्युः, न वा समर्था इति पक्षौ। यदि समर्थाः; तदा सामर्थ्यसद्भावे वर्तमानाः प्राप्नुवन्ति, अविवादास्पदीभूतवर्त्तमानवत्। प्रयोगःये येऽर्थक्रियासमर्थास्ते वर्तमानाः, यथाऽविवादास्पदीभूता वर्तमानाः । अर्थक्रियासमर्थाश्चातीतादय इंति स्वभावहेतुप्रसङ्गः ।। १८३४॥
अवर्तमानतायां तु सर्वशक्तिवियोगिनः । नष्टाजाताः प्रसज्यन्ते व्योमतामरसादिवत्॥१८३५॥ तुल्यपर्यनुयोगाश्च सर्वे व्योमादयोऽकृताः। अनैकान्तिकताक्लुप्तेन तेऽपि विनिबन्धनम्॥१८३६ ॥ नियमार्थक्रियाशक्तिर्भावानां प्रत्ययोद्भवा। अहेतुत्वे समं सर्वमुपयुज्येत सर्वतः॥१८३७॥
नियतार्थक्रियाशक्तिजन्म प्रत्ययनिर्मितम्। १. ०ऽत्र-पा०, गा०1
२. मानविरोधोऽपि-पा०, गा० ।
.
. ना