________________
४३८
तत्त्वसंग्रहे ___ अथ रूपादेः संस्कृतलक्षणयोगात् संस्कृतत्वम्, नाकाशादीनाम्, तेन भवति प्रतिसङ्ख्यानिरोधादेवॆलक्षण्यं रूपादेरिति परैर्मतम्, तदेतदसम्क्; तथा हि-जातिः, जरा, स्थितिः, अनित्यता च-इति चत्वारीमानि संस्कृतलक्षणानि। तत्र जातिर्जनयति, स्थितिः स्थापयति, जरा जरयति, अनित्यता विनाशयति-इत्येवं जननादिरेषां व्यापार इष्टः ॥
तत्र जातिर्विशेषं कं जनयन्त्यभिधीयते। जनिकाऽस्येति तद्रूपादजातादपरं परम्॥१८२४॥ अशक्योत्पादनस्तावदनन्योऽतिशयस्ततः । सत्त्वात् प्रागपि निष्पत्तेर्निष्पत्त्युत्तरकालवत्॥१८२५॥ अन्यस्त्वतिशयो नास्ति व्यतिरेकादसङ्गतेः। ....
असत्कार्यप्रसङ्गश्च तस्य पूर्वमसत्त्वतः॥१८२६॥ तत्र जातिस्तावत् कं विशेषं जनयन्ती सत्यस्य रूपादेर्जनिका इत्यभिधीयते-किं तस्माद्रूपादेः परम् व्यतिरिक्तम्, आहोस्विदपरम् अव्यतिरिक्तं विशेषं जनयन्तीति पक्षद्वयम्। तत्र न तावदव्यतिरिक्तम्; यस्मादसौ विशेषो जातिव्यापारात् प्रागपि निष्पन्नत्वादशक्यक्रियः, निष्पत्त्युत्तरकालवत्। न हि निष्पन्नस्य क्रिया युक्ता; अनवस्थाप्रसङ्गात्। नापि व्यतिरिक्तोऽतिशयः क्रियते; व्यतिरेके ह्यस्य रूपादेरयमतिशय इति सम्बन्धासिद्धेः । तथा हि-न तादात्म्यलक्षणः सम्बन्धः; व्यतिरेकाभ्युपगमात् । अनभ्युपगमे वा पूर्वोक्तदोषप्रसङ्गात् । नापि तदुत्पत्तिलक्षणः; जातेरेव तदुत्पत्तेः । न चान्यः सम्बन्धोऽस्ति; आधाराधेयत्वादीनां तदुत्पत्त्यन्तर्गतत्वात्। अथ तदुत्पत्तिरभ्युपम्यते? तन्मात्रभाविनो विशेषस्य नित्योत्पत्तिप्रसङ्गाज्जातिरिदानी किङ्करी स्यात् ! जातिमपेक्ष्योत्पादयतीति चेत्? न ह्यनुपकारिण्यां [G.514] जातावपेक्षा युक्ता; अतिप्रसङ्गात्। उपकारे वा तस्योपकारस्यातिशयवत् तत्त्वान्यत्वचिन्तायामनवस्थाप्रसङ्गात् । तस्माद् व्यतिरेके सति सम्बन्धो न सिध्यति ॥ १८२४-२६॥
अन्यथात्वे स्थितौ नाशे चान्यानन्यविकल्पयोः ।
जरादिविषया दोषा एत एवानुषङ्गिणः॥१८२७॥ किञ्च-तस्यातिशयस्य पूर्वमसत्त्वादसत्कार्यमभ्युपगतं भवेत्। एवं जरयान्यथात्वे क्रियमाणे, स्थित्याऽवस्थिते, अनित्यतया च नाशे क्रियमाणे, एषामन्यथात्वादीनामन्याऽनन्यविकल्पे सति ये दोषास्ते जातिवज्जरादिष्वपि वाच्याः ।। १८२७॥
स्वकार्यारम्भिण इमे सामर्थ्यनियमात्मना। जात्यादयश्च तद्रूपं प्राक् पश्चादपि विद्यते॥१८२८॥ समर्थरूपभावाच्च प्रारभन्ते न किं तदा।
स्वानुरूपां क्रियां तस्याः प्रारम्भे चामिताध्वता ॥१८२९॥ किञ्च-जात्यादीनां स्वकार्यारम्भित्वं यत् तत् समर्थस्वभावनियमादिष्टम्। स च समर्थः स्वभावस्तेषां सर्वदाऽस्तीति सदैव स्वकार्यारम्भित्वप्रसङ्गः । न च हेतुप्रत्ययवैकल्यम्; १. जाति:-पा०गा०। २. चासिनाध्वना-जै।