________________
त्रैकाल्यपरीक्षा
४३७
ततश्च कथं ता अभूत्वा, भवन्त्यो विनश्यन्त्यश्च तदात्मिका युक्ता: ? नैव; भिन्नयोगक्षेमत्वात् । अन्यथा हि तदात्मत्वेनासामपि सदास्तित्वप्रसङ्गो वस्तुस्वभाववत्, [G.512] ततोऽव्यतिरेकाद् वस्तुनो वाऽभूत्वाभावादिप्रसङ्गोऽवस्थास्वरूपवत् ।
भवतु चावस्थाभेदपरकल्पना, तथापि विरुद्धधर्माध्यासो न परिहृत एव । तथा हिवस्तु मध्यावस्थायां किं स्वरूपेण कारकम् ? आहोस्वित् पररूपेण ? यदि स्वरूपेण, तदेव स्वरूपमन्ययोरपि दशयोरतीतानागतावस्थयोरस्तीति कथमस्य कारकस्वभावस्य क्रियाक्रियाभ्रंशौ स्याताम् ! अथ पररूपेण, तदाऽस्याकर्तृता पुनः प्राप्तेत्यवस्तुत्वप्रसङ्गः । एवं तावत् तदेव वह्न्यदिरूपमतीतानागतावस्थायां न युक्तम् । अथान्यत्, अस्मिन् पक्षे न भवत्येकत्र क्रियाक्रियादिपरस्परपराहतधर्मसाङ्कर्यादिदोषः, भिन्नत्वाद् वस्तुनः । किन्तु यत्तद्दाहपाकादिकार्ययोग्यमनलादिकं वस्तु तदभूत्वा जायते, भूत्वा च विगच्छतीति सदाऽस्तित्वाभ्युपगमविरोधः स्यात्; अन्वयाभावात् ॥ १८१५- १८१९॥
स्यादेतत्-यद्यपि कार्ययोग्यमभूत्वा जायते, भूत्वा च विगच्छतीति; तथाप्यतीतानागतावस्थायामकार्ययोग्यं वस्तु विद्यत एव, तंतश्च न सदाऽस्तित्वाभ्युपगमविरोध: ? इत्याहस एव भाविको भावो य एवार्थक्रियाक्षमः ' ।
स च नास्ति तयोर्योऽस्ति न तस्मात् कार्यसम्भवः ॥ १८२० ॥ स एवेति अर्थक्रियाक्षमः । तयोरिति अतीतानागतावस्थयोः । योऽस्तीति अकार्ययोग्यः ॥ १८२० ॥
अथापि स्यात् - अतीतस्य सभागहेत्वादेः कार्ययोग्यत्वमिष्यत एव ततश्चासिद्धमेतत् ‘न तस्मात्.कार्यसम्भवः' इति ? आह
अतीतश्च पदार्थोऽयमभूत्वा भवनात् स्फुटम्।
वर्त्तमानोऽन्यवत् प्राप्तः कादाचित्कतयापि च ॥ १८२१ ॥ सदा सत्त्वमसत्त्वं वा हेतुत्वेऽस्यानपेक्षणात् ।
. हेतोर्नियतसत्त्वश्च वर्तमानोऽर्थ उच्यते ॥ १८२२ ॥ प्रतिसङ्ख्यानिरोधादिवैलक्षण्यं परैर्मतम् । संस्कृतत्वं च रूपादेर्जातिस्थित्यादियोगतः ॥ १८२३ ॥ [G.513] अन्यवदिति। अविवादास्पदीभूतवर्त्तमानवत् । कादाचित्कतयाऽपि चेति। वर्त्तमानोऽन्यवत् प्राप्त इति सम्बन्धः । न चायं हेतुरनन्वयः । तथा हि- हेतुप्रत्ययजनितो योऽर्थः स वर्त्तमान उच्यते, यश्च कादाचित्कः सोऽवश्यं हेतुप्रत्ययनिमित्तः; यस्मादहेतुकस्य द्वे एव गती - यदुत सदा सत्त्वम्, असत्त्वं वा; अन्यानपेक्षणात् । तस्माद्यः कादाचित्कः सोऽवश्यं हेतुप्रत्ययनिर्मितसत्त्वः, सोऽवश्यं वर्त्तमान एवेति सिद्धम् । वर्तमानत्वेन कादाचित्कत्वस्य व्याप्तिः ॥ १८२१ ॥
. किञ्च - यद्यतीतानागतं द्रव्योऽस्ति तदा सर्वसंस्काराणां शाश्वतत्वप्रसङ्गः । ततश्च प्रतिसङ्ख्यानिरोधादिभ्यो रूपादीनां विशेषो न प्राप्नोति ॥ १८२२ ॥
१. एवायं क्रिया० - पा०, गा० ।
२. ० न्यानपेक्षणात् पा०, गा० ।