________________
४३६
तत्त्वसंग्रहे अक्रिया च क्रिया चापि क्रियाविरतिरित्यपि॥१८११॥ एकस्मिन् निर्विशिष्टेऽस्मिन् परस्परपराहताः।। प्रकाराः कथमेते हि युज्यन्ते नाम वस्तुनि॥१८१२॥ एकावस्थापरित्यागे परावस्थापरिग्रहात्। नैवैतन् निर्विशिष्टं चेद् वस्त्वध्वस्विति कल्प्यते॥१८१३ ॥ किं वै भावाद् विभिद्यन्तेऽवस्थानाकर्तृताप्तितः।
तासामेव हि सद्भावात् कार्यसत्तोपलभ्यते॥१८१४॥ [G.511] फलाक्षेपशक्तिर्हि धर्माणां कारित्रमिति वर्णितम् । या' च फलाक्षेपशक्तिः सारे नान्या वस्तुस्वलक्षणात्, किं तर्हि ? तदेव। अत एवासौ न शब्दगोचरा; असाधारणत्वात् स्वलक्षणे शब्दाप्रवृत्तेः । ततश्च शक्तिरेव वस्तु नान्यदिति कथं सा शक्ति: प्रज्ञप्तिसती भवेत् ! नैव भवेदिति । ततश्च तद्वशादध्वव्यवस्थानं तात्त्विकमेवेष्टं भवतेति भावः। किञ्च-यदेतद्दाहपाकाद्यर्थक्रियाकारि वढ्यादिरूपमुपलभ्यते, किं तदेवातीतानागतावस्थम्? आहोस्विदन्यत् ? यदि तदेव, कथमेकस्मिन्निविशिष्टेऽस्मिन् रूपादिके वस्तुन्यक्रियादयः परस्परविरुद्धा धर्मा युज्यन्ते, येन यथाक्रममनागतवर्तमानातीतव्यवस्था स्यात् ! यदि हि विरुद्धधर्माध्यासेऽप्येकत्वं स्यात्, उत्सन्ना तर्हि भेदव्यवस्था, ततश्च सर्वमेव जगदेकमेव स्यात्, एकत्वे च सहोत्पत्त्यादिप्रसङ्गः ! अथाप्यवस्थापरित्यागपरिग्रहभेदेन भिन्नत्वादध्वसु वस्तु न निर्विशिष्टमिति कल्प्यते, एवमपि किं ता अवस्था भावाद्भिन्नाः? आहोस्विदभिन्नाः ?-इति वक्तव्यम्। पर आहनेति। भिद्यन्ते भावादिति सम्बन्धः । कस्मात्? भावस्याकर्तृत्वाप्तित:५=अकर्तृत्वप्रसङ्गात्। अन्वयव्यतिरेकाभ्यां तासामेवावस्थानं कार्य प्रति सामर्थ्यसिद्धेः ॥ १८०९-१८१४॥ अत्र दूषणमाह- . . .
अभेदमनुमन्यन्ते । कथमध्वसु, वस्तुनः । ता अभूत्वा भवन्त्यश्च विनश्यन्त्यस्तदात्मिकाः॥१८१५॥ अवस्थायां च मध्यायां स्वरूपेणैव कारकम्। तत् तदेव स्वरूपं च दशयोरन्ययोरपि॥१८१६ ॥ तदक्रियाक्रियाभ्रंशौ कथमस्य तयोर्मतौ। पररूपेण कर्तृत्वे प्राप्ताऽस्याकर्तृता पुनः॥ १८१७॥ अतीतानागतावस्थमन्यच्चेदनलादिकम् । तत्साङ्कर्यादिदोषोऽयमस्मिन् पक्षे निरास्पदः ॥१८१८ ॥ तदिदानीमभूत्वैव कार्ययोग्यं प्रजायते।
न च तिष्ठति भूत्वेति सिद्धाऽस्यानन्वयात्मता॥१८१९॥ वस्तुनः सकाशादभेदं कथमवस्थास्वनुमन्यन्ते =प्रतिपद्यन्ते? नैवं; यस्मादभूत्वा भवन्त्यवस्थाः, भूत्वा च विनश्यन्ति। न च तथा वस्त्विष्टम्; सर्वदाऽस्तित्वाभ्युपगमात् । १. सा-पा०. गा०।
२-२. पा०, गा० पुस्तकयो स्ति। .. ३. ०सती कथं- गा० । ४. भवतीति-पा०, गा०। ५. कर्तृताप्तित:-पा०, गा०।
६. ०वस्थानुमन्यन्ते-पा०।