________________
त्रैकाल्यपरीक्षा
४३५ अनाक्षिप्तान्यभेदेनेति भेदान्तरप्रतिक्षेपेणेत्यर्थः। तथोच्यत इति व्यतिरेकीव। तदिति सप्रतिघत्वम्। शब्देनेत रूपस्य सप्रतिघत्वमित्यनेन । अत्र दृष्टान्तमाह-चेतसो वासनापिर्चेत। अपिचेति समुदायो निपात इवार्थे दृष्टव्यः ॥ १८०५ ॥
पुनः स एवाह- "न कारित्रं धर्मादन्यत्, तद्व्यतिरेकेण स्वभावानुपलब्धेः । नापि धर्ममात्रम्, स्वभावास्तित्वेऽपि कदाचिदभावात्। न च न विशेषः, कारित्रस्य प्रागभावात्, सन्तानवत् । तथा धर्मनैरन्तर्योत्पत्तिः सन्तान इत्युच्यते, न चासौ धर्मव्यतिरिक्तः; तदविभागेन गृह्यमाणत्वात् । न च धर्ममात्रम्, एकक्षणस्यापि सन्तानत्वप्रसङ्गात् । न च नास्ति, तत्कार्यसद्भावात्" इति। आह च
"सन्ततिकार्यं चेष्टं न विद्यते सापि सन्ततिः काचित्।
तद्वदवगच्छे युक्त्या कारित्रेणाऽध्वसंसिद्धिम्"॥ ( ) इति। अत्राह- ..
तत्त्वान्यत्वप्रकाराभ्यामवाच्यमथ वर्ण्यते। सन्तानादीव कारित्रं स्यादेवं सांवृत्तं ननु॥१८०६॥ अतश्च कल्पितत्वेन तत् क्वचिनोपयुज्यते। . कार्ये सन्ततिवद् यस्माद् वस्त्वेवार्थक्रियाक्षमम्॥१८०७॥ सन्निधानं च तस्येदं भाविकं नेति तत्कृतम्।
अध्वत्रयव्यवस्थानं तात्त्विकं नोपपद्यते॥१८०८॥ [G.510] सन्तानादीवेत।आदिशब्देन समूहादिपरिग्रहः । यथा सन्तानिभ्यस्तत्त्वान्यत्वेनावाच्यत्वात्. पुद्गलवत् सन्तानो नि:स्वभावः, तद्वत् कारित्रमपि निस्वभावं' स्यात्। स्वभावे हि सति तत्त्वमन्यत्वम्, ततश्च तत्कारित्रं कल्पितत्वान्न क्वचित् कार्ये सन्ततिवदुपयुज्येत । न हि कल्पितस्य सन्तानस्य क्वचित् कार्येऽस्त्युपयोगः; तस्य नि:स्वभावत्वात्। स्वभावप्रति-बद्धत्वात् कार्योदयस्य। तस्माद् वस्त्वेव सन्तानिस्वभावमर्थक्रियाक्षमम्, न सन्तानः कल्पितः। ततश्च कारित्रस्य प्रज्ञप्तिसत्त्वात् प्राग्वत् पश्चादपि न परमार्थतः संनिधानमस्तीति तद्वशादध्वत्रयव्यवस्थानमपि कल्पितमेव स्यात्, न भाविकम्॥ १८०६-१८०८॥
अथापि' स्याद्-भवतु कारित्रं प्रज्ञप्तिसत्, तत्कृतं चाप्यध्वव्यवस्थानं प्रज्ञप्तिसत् ततश्च को दोषः? इत्याह
कारित्राख्या फलाक्षेपशक्तिर्या शब्दगोचरा।। शक्तेरेव च वस्तुत्वात् सा प्रज्ञप्तिसती कथम्॥१८०९॥ यच्चेदमीक्ष्यते . रूपं दाहपाकादिकार्यकृत्। अतीतानागतावस्थं किं तदेवाभ्युपेयते॥१८१०॥
तदेव चेत् कथं नाम तस्यैवैकात्मनः सतः। १. प्रतिघत्व०-पा०।
२. भदन्तसंहतभद्र इत्यर्थः। ३-३. पा० पुस्तके नास्ति; तथा कारित्रं निस्वभावं-गा।
४. प्रागनु-पा०, गा०। ५. तथापि-पा०, गा०। ६. शब्दगोचर:-जै०।
७. यच्चेदमिष्यते-पा०, गा०।