________________
४३४
तत्त्वसंग्रहे कारित्रमित्यादिना परस्परविरुद्धाभ्युपगमोद्भावनेनोपहसति
कारित्रं सर्वदा नास्ति सदा 'धर्मस्तु वर्ण्यते। धर्मान्नान्यच्च कारित्रं व्यक्तं देवविचेष्टितम्॥१८०१॥ कारित्रान्तरसापेक्षा तत्राप्यध्वस्थितिर्यदि।
तुल्यः पर्यनुयोगोऽयं ननु सर्वत्र धावति॥१८०२॥ एवं तर्हि रूपादिधर्मो न सदास्तीति प्रसक्तम्, कारित्रादव्यतिरिक्तत्वात् ? इत्याहसदा धर्मस्त्विति । एवमपि धर्मादन्यत् कारित्रं प्रसज्यते? इत्याह-धर्मान्नान्यच्च कारित्रम्। देवाः ईश्वरादयः, ते हि युक्तायुक्तमनालोच्य स्वातन्त्र्येणैव वर्तन्ते इति तेषां यथाचेष्टितं युक्तिनिरपेक्षं स्वातन्त्र्येण प्रवृत्तिः, तद्वदेतदिति यावत्। किञ्च-यदि कारित्रस्य कारित्रमन्तरेणानागतादित्वमिष्यते, न तर्हि वक्तव्यम्-'अध्वानः कारित्रेण व्यवस्थिताः' इति; व्यभिचारात्। तथा कारित्रस्य स्वरूपसत्तापेक्षयाऽनागतादित्वं व्यवस्थाप्यते, एवं भावानामप्यनागतादित्वं भविष्यतीति किं कारित्रकल्पनया! अथ मा भूद् व्यभिचारदोष इति कारित्रस्यापि कारित्रमभ्युपगम्यते? तदा तत्रापि व्यतिरेकादिचिन्तया तुल्यः पर्यनुयोगः, अनवस्थादोषश्चं ॥१८०१-१८०२ ॥
यदुक्तम्-अनन्यत्वेऽपि कारित्रं सार्वकालिकं प्राप्नोति धर्मस्वरूपवदविशेषादिति। अत्र भदन्तसंहतभ्रद्र आह- ..
स्वरूपाद् व्यतिरिक्तोऽपि दृष्टः सप्रतिघत्ववत्। विशेषश्चेदिदं नैव प्रकृतस्योपकारकम्॥१८०३॥ न हि सप्रतिघत्वादिः पदार्थस्यानुगामिनः ।
कादाचित्को मतः कश्चिद्भावस्यैव तथोद्भवात्॥१८०४॥ [G.509] "स्वरूपाद् व्यतिरिक्तोऽपि विशेषको धर्मो दृष्टः, यथा-सप्रतिघत्वादिः पृथिव्यादीनाम्। ते हि पदार्थत्वेनाविशिष्टा अपि सप्रतिघा अप्रतिघाः, सनिदर्शना अनिदर्शना इति स्वरूपाव्यतिरिक्तैर्धमैर्विशिष्टाः प्रतीयन्ते, तद्वत्कारित्रेणापि धर्मः" इति। तदेतत् प्रकृतानुपकारकम् । तथा हि इदमत्र प्रकृतम्-‘पदार्थात् कारित्रस्याभेदेऽभ्युपगम्यमाने सत्येकस्यैव पदार्थस्यात्मभूतकारित्रस्याविशेषात्तद्वशादयमध्वविभागो नावकल्पते' इति। पृथिव्यादयस्तु परस्परमन्योऽन्यलक्षणभेदासङ्गाभिन्ना इति युक्तं यत् केचित् सप्रतिघा भवन्ति केचिदप्रतिघा एव, यथा-वेदनादयः, न तु य एवाप्रतिघास्त एव सप्रतिघा इति; यतो न कश्चिदेकोऽनुगामी पदार्थात्मास्ति पृथिव्यादीनां यत्सप्रतिघत्वादिधर्मः कादाचित्को भवेत्, किं तर्हि ? भावस्य निरवयवस्य तथा सजातीयविजातीयव्यावृत्तस्योद्भव इति न स्वरूपाव्यतिरिक्तो धर्म एकस्य भेदको युक्तः ॥ १८०३-१८०४॥
__ कथं रूपस्य सप्रतिघत्वमिति व्यतिरेकीव व्यपदेशः, यदि स्वरूपाव्यतिरिक्तो धर्मो भेदको न भवेत् ? इत्याह
अनाक्षिप्तान्यभेदेन भाव एव तथोच्यते।
सद्रूपस्येति' शब्देन चेतसो वासनापि च । १८०५॥ १. धर्मश्च-पा०, गा०।..
३. ०वा-जै०।
२. तद्रूपस्य-पा०, गा०/