________________
त्रैकाल्यपरीक्षा
४३३ . नैतद् रूपातिरिक्तं हि विद्यते नित्यलक्षणम्॥१७९५॥ [G.507] तत्कारित्रं धर्मादन्यद्वा स्याद्, अनन्यद् वा?- इति तैरभ्युपगन्तव्यम्; अन्यानन्ययोरन्योऽन्यपरिहारस्थितलक्षणत्वात्,एकनिषेधस्यापरविधिनान्तरीयकत्वात्। नान्या वस्तुनो गतिरस्ति । तत्र यद्यन्यत्, तदा वर्तमानानां प्रागूर्वावस्थयोः निःस्वभावता प्राप्नोति; हेतुत्वसंस्कृतत्वादेर्हेतोः', कारित्रवत् । आदिशब्देन वस्तुत्वादयो गृह्यते। अन्यथा यदि प्रागूर्ध्वं च निःस्वभावता न स्यात्, तदा सर्वस्य संस्कृतस्य नित्यता प्राप्नोति; स्वभावस्य सर्वदा व्यवस्थितत्वात् । न च सदासत्त्वव्यतिरेकेण नित्यत्वलक्षणमस्ति । यदाह- "नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति" (प्र० वा० १.२०६) इति ॥ १७९३-१७९५ ॥
__स्यादेतत्-यदि नाम नित्यता शक्तिः, हेतुत्वसंस्कृत्वादेस्तु हेतोः कथं साध्यविपक्षण विरोधः? इत्याह
नित्यस्य हेतुता पूर्वं क्रमाक्रमविरोधतः। निषिद्धा संस्कृतत्वं हि व्यक्तं नित्ये निरास्पदम्॥१७९६ ॥ स्कन्धादिव्यतिरिक्तस्य कारित्रस्योपवर्णनम्।
स्वसिद्धान्तविरोधश्च दुर्निवारः प्रसज्यते॥१७९७॥ पूर्वमिति स्थिरभावपरीक्षायाम्। सर्वस्य च संस्कृतस्यानित्यत्वाभ्युपगमात् संस्कृतत्वं नित्ये न सम्भवतीति स्पष्टमेवावसीयते । किञ्च-स्कन्धायतनव्यतिरिक्तस्य कारित्रस्योपवर्णने सिद्धान्तविरोधः । तथा हि भगवतोक्तम्- "सर्वं सर्वमिति, ब्राह्मण, यदुत पञ्चस्कन्धाः, द्वादशायतनानि, अष्टादश च धातव:२" (. . ) इति ॥ १७९६-१७९७ ॥
अनन्यत्वेऽपि कारित्रं धर्मादव्यतिरेकतः। स्वरूपमिव धर्मस्य प्रसक्तं सार्वकालिकम्॥१७९८॥
ततंश्चाध्वविभागोऽयं तद्वशान्न प्रकल्प्यते। ... न हि तस्य च्युतिः प्राप्तिरप्राप्तिर्वा विभागतः॥१७९९॥ [G.508] 'अथानन्यत्कारित्रमभ्युपगम्यते, तदा धर्मस्वरूपवत् तदव्यतिरेकात् तदपि सार्वकालिकं प्राप्रोति। ततश्च कारित्रात् प्रच्युतोऽतीतः, तत्प्राप्तो वर्तमानः, तदप्राप्तोऽनागतःइति कारित्रवशादयमध्वविभागो न स्यात्; यतोऽस्य कारित्रस्य यदि विभागेन च्युतिप्राप्त्यप्राप्तयः स्युः, तदा स्यादयमध्वविभागः, न च तानि विभागेन सम्भवन्ति; सदावस्थितैकरूपस्य विभागाभावात्॥१७९८-१७९९॥
कारित्राव्यतिरेकाद्वा धर्मः कारित्रवद् भवेत्।
पूर्वापरव्यवच्छिन्नमध्यमात्रकसत्त्ववान् ॥१८००॥ 'किञ्च-कारित्रादव्यतिरिक्तत्वाद् धर्मोऽपि पूर्वापरकोटिशून्यसत्तायोगी प्राप्नोति कारित्रवत् । पूर्वापरव्यवच्छिन्नम्=पूर्वापरकोटिशून्यम्, मध्यमात्रकं च तत्सत्त्वं चेति विग्रहः । तदस्यास्तीति तद्वान् ॥ १८०० ॥ १. ०त्वाद्धेतो.-पा०, गा०।। ४. सर्ववान्-पा०, गा०।
५. तत्सर्व-पा०, गा०।
२-२. चाभव:- पा०: चाभव:-गा।
३. यदि प्राप्त्य०-पा०, गा०।