________________
४३२
तत्त्वसंग्रहे
रूपं नाभविष्यत्, न श्रुतवानार्यश्रावकोऽतीतरूपेऽनपेक्षोऽभविष्यत् । यस्मात्तस्त्यितीतं रूपम्, तस्माच्श्रुतवानार्यश्रावकोऽतीतरूपेऽनपेक्षो भवतीति विस्तरः"। तथा- "यत्किञ्चिद्रूपमतीतमनागतादि तत्सर्वमभिसंक्षिप्य रूपस्कन्धः' इति सङ्ख्यां गच्छति" ( ) इत्यादि। अध्वना संग्रहो येषां तेऽध्वसंग्रहा रूपादयः। आदिशब्देन वेदनादिपरिग्रहः। तेषां भावो [G.506] रूपादित्वम्। अत्राप्यादिशब्देन दुःखसमुदयानित्यानात्मादित्वेनोपदिष्टत्वादिति गृह्यते ॥ १७८६-१७८९॥ अथापि स्यात्-आकाशवत् सदावस्थितत्वादतीतादिव्यवस्था तर्हि कथम्? इत्याह
न चैवमिह मन्तव्यमध्वभेदः कुतो न्वयम्। . कारित्रेण विभागोऽयमध्वनां यत् प्रकल्प्यते॥१७९०॥' कारित्रे वर्त्तते यो हि वर्तमानः स उच्यते। कारित्रात् प्रच्युतोऽतीतस्तदप्राप्तस्त्वनागतः॥१७९१॥ फलाक्षेपश्च कारित्रं धर्माणां जनकं न तु। .
न वाक्षेपोऽस्त्यतीतानां नातः कारित्रसम्भवः ॥ १७९२॥ यतः सम्प्राप्तकारित्रो वर्तमान उच्यते, उपरतकारित्रोऽतीतः, अप्राप्तकारित्रोऽनागत इत्यध्वानः कारित्रेण व्यवस्थिताः । किं पुनरत्र कारित्रमभिप्रेतम्? यदि दर्शनादिलक्षणो व्यापारः, यथा पञ्चानां चक्षुरादीनां दर्शनादिकम्-यंतश्चक्षुः पश्यति, श्रोत्रं शृणोति, घ्राणं जिघ्रति, जिह्वा स्वादयतीत्यादिविज्ञानस्यापि विज्ञातृत्वम्, विजानातीति कृत्वा रूपादीनामिन्द्रियगोचरत्वम्। एवं सति प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषो निद्रावस्थायां कारित्राभावाद् वर्तमानता न स्यात्।
___ अथ फलदानग्रहणलक्षणं कारित्रम्, यथा-चक्षुषा सहभवा धर्मा जात्यादयः पुरुषाकारफलम्, अनन्तरोत्पन्नं चक्षुरिन्द्रियं पुरुषकारफलमधिपतिफलं निष्यन्दफलं च, एतत् फलं जननात् प्रयच्छद्धेतुभावावस्थानाद् गृह्णच्चक्षुर्वर्तमानमुच्यत इति? एवं तर्यतीतानामपि सभागसर्वत्रगविपाकहेतूनां फलदानाभ्युपगमाद् वर्तमानत्वप्रसङ्गः । अथ समस्तमेव फलदानग्रहणलक्षणं कारित्रमिष्यते, एवमतीतस्य सभागहेत्वादेरर्धवर्तमानत्वप्रसङ्गः?–इत्येतदोषभयादा चार्यसंहतभद्र' आह-"धर्माणां कारित्रमुच्यते फलाक्षेपशक्तिः, न तु फलजननम्। न चातीतानां सभागहेत्वादीनां फलाक्षेपोऽस्ति; वर्तमानावस्थायामेवाक्षिप्तत्वात् । न चाक्षिप्तस्याक्षेपो युक्तः; अनवस्थाप्रसङ्गात्। तस्मादतीतानां न कारित्रसम्भव इति नास्ति लक्षणसङ्करः'' .( ) इति ॥ १७९०-१७९२ ॥ तैरित्यादिना प्रतिविधत्ते
तैः कारित्रमिदं धर्मादन्यत् तद्रूपमेव वा। अभ्युपेयं यदन्याऽस्ति गति: काचिन्न वास्तवी॥ १७९३ ।। अन्यत्वे वर्तमानां प्रागूर्ध्वं वाऽस्वभावता। हेतुत्वसंस्कृत्वादेः कारित्रस्येव गम्यताम्॥१७९४॥
अन्यथा नित्यतासत्तिः स्वभावावस्थितेः सदा। १. तत्समानरूपस्येत्यर्थः।
२. ०सहन्तभद्र-पा०, गा०। ३. नित्यतापत्ति:- पा०, गा०)