________________
त्रैकाल्यपरीक्षा
४३१ व्यवस्थापेक्षया व्यवहारः, यथा मृगुडिकायाम्। न हि तस्याः स्वभावान्यथात्वं भवति; किं तर्हि ? स्थानविशेषसम्बन्धात् सङ्ख्याभिद्योतकं संज्ञान्तरमुत्पद्यते।
. अन्यथान्यथिको 'भदन्तबुद्धदेवः। स किलाह- "धर्मोऽध्वसु वर्तमानः पूर्वापरमपेक्ष्यान्योन्य उच्यते" इति। यथैका स्त्री माता चोच्यते, दुहिता चेति । अस्य पूर्वापरापेक्षो व्यवहारः । यस्य पूर्वमेवास्ति नापर: सोऽनागतः, यस्य पूर्वमस्ति अपरं च स वर्तमानः, यस्यापरमेव न पूर्वं सोऽतीत इति।
एते चत्वारः 'सर्वास्तिवादा भावलक्षणाऽवस्थान्यथान्यथिकसंज्ञिताः।
तत्र प्रथमः परिणामवादित्वात् साक्ष्यमतान्न भिद्यते; [G.505] यस्तस्य प्रतिषेधः सोऽस्यापि द्रष्टव्यः । तथा हि-पूर्वस्वभावापरित्यागेन वा परिणामो भवेत्, परित्यागेन वा? यद्यपरित्यागेन, तदाऽध्वसङ्करप्रसङ्गः। अथ परित्यागेन? तदा सदाऽस्तित्वविरोधः ।
द्वितीयस्यापि वादिनोऽयं सङ्कर एव; सर्वस्य सर्वलक्षणयोगात् । रुषस्त्वर्थान्तरभूतरागसमुदाचाराद्रक्त उच्यतेऽविरक्तश्च समन्वागममात्रेण, न तु धर्मस्य लक्षणसमुदाचारो लक्षणसमन्वागमो वा प्राप्तिलक्षणोऽस्ति, अन्यत्वप्रसङ्गाल्लक्षणस्य प्राप्तिवदिति न साम्यं दृष्टान्तस्य दार्टान्तिकेन।
तृतीयस्य कारित्रेणाध्वस्ववस्थेति तस्य विस्तरेण दूषणं वक्ष्यते।
चतुर्थस्याप्येकंस्मिन्नेवाध्वनि त्रयोऽध्वानः प्रापॅवन्ति। तथा हि-अतीतेऽध्वनि पूर्वपश्चिमौ क्षणावतीतानाग़तौ, मध्यमः क्षण प्रत्युत्पन्न इति । एषा दूषणदिगेषां स्पष्टा। . तृतीयमेवारभ्य भूयस्त्रैकाल्यपरीक्षाऽऽरभ्यते
- हेमदृष्टान्तेन तु सिद्धान्तोपक्षेपमात्रं कृतम्, न तु धर्मत्रातदर्शनमेवाभिमतम् । तथा च वक्ष्यति- "कारित्रेण विभागोऽयमध्वनां यत् प्रकल्प्यते" (तत्त्व १७९०) इति। न च धर्मत्रातस्य कारित्रेणाध्वव्यवस्था, किं तर्हि ? वसुमित्रस्य । तत्र यद्यतीतानागतं न स्यात्, 'अभून्महासम्मतो भविष्यति शङ्खश्चक्रवर्ती' इत्यतीताजातयोर्विज्ञानं निरालम्बनमेव स्यात्, . 'ततश्च विज्ञानमेव न स्याद्; आलम्बनाभावादिति भावः । तथा हि-प्रतिवस्तु विज्ञप्त्यात्मकं विज्ञानम्, असति च ज्ञेये न किञ्चिदनेन ज्ञेयमित्यविज्ञानमेव स्यात्। किञ्च-"द्वयं प्रतीत्य विज्ञानमुत्पद्यते" ( ) इति भगवतोक्तम्- "कतमद् द्वयम् ? चक्षूरूपाणि यावन्मनोधर्माः" ( ) इति । असति चातीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यादित्यागमविरोधः । अपि च–अतीतं कर्म फलदं न स्याद्, यदि तन्निःसत्त्वं सत्ताशून्यं भवेत् : फलोत्पत्तिकाले विपाकहेतोरभावात्। न चासत: कार्योत्पादनशक्तिरस्ति; सर्वसामर्थ्यविरहलक्षणत्वादसत्त्वस्य। किञ्च- 'आसीन्मान्धाता ब्रह्मदत्तः, भविष्यति शङ्खश्चक्रवर्ती मैत्रेयस्तथागतः' इत्यादिना विभागेन योगिनामतीतादिविषयं विभक्तं विज्ञानं न स्यात्। न ह्यसतां विभागोऽस्ति; यस्मादतीतानागता भावाः श्रीहर्षादयो न द्रव्यप्रतिषेधरूपाः; अध्वसंगृहीतरूपादित्वेनोपदिष्टत्वाद्, वर्तमानवत् । उक्तं हि भगवता- "अतीतं चेद् भिक्षवो १. बुद्धदेव:- पा०, गा०।
२. सर्वेऽस्तिवादा:- पा०, गा०। . ३. ०ध्वव्यवस्थेति- पा०, गा० ।
४. मान्धाना- जे०; मान्धानो-पा०, गा० ।