________________
२१. त्रैकाल्यपरीक्षा
'असङ्क्रान्तिम्" (तत्त्व० ४) इत्यस्य समर्थनार्थमाहहेमानुगमसामान्ये' त्रिकालानुगतो ननु' । अवस्थाभेदवान् भावः कैश्चिद् बौद्धैरपीष्यते ॥ १७८५ ॥ "नावस्थानं तु कस्यचित् ( तत्त्व० १७८२) इत्यत्रेदं चोद्यम् - ननु कथमिदमुच्यते 'नावस्थानं तु कस्यचित्' इति यावता कैश्चिद् धर्मत्रात्प्रभृतिभिर्बोद्धैरपि कालत्रयावस्थितो भाव इष्टः; अवस्थाभेदात्, हेमानुगमसाधर्म्येण ॥ १७८५ ॥
44
एतदेव द्वितीयेन लोकेन दर्शयति
अवस्थाभेदभावेऽपि यथा वर्ण्य जहाति न ।
माध्वसु तथाभावो द्रव्यत्वं न त्यजत्ययम् ॥ १७८६ ॥ अतीताजातयोर्ज्ञानमन्यथाऽविषयं भवेत् । द्वयाश्रयं च विज्ञानं तायिना कथितं कथम् ॥ १७८७॥ कर्मातीतं च निःसत्त्वं कथं फलदमिष्यते ।
अतीतानागतं ज्ञानं विभक्तं योगिनां च किम् ॥ १७८८ ॥ द्रव्यापोहविषया अतीतानागतास्तः ।
न
अध्वसंग्रहरूपादिभावादेर्वर्तमानवत्'
॥ १७८९ ॥
[G.504] तत्र भावान्यथावादी भदन्तधर्मत्रातः । स किलाह - " धर्मस्याध्वसु वर्त्तमानस्य भावान्यथात्वमेव केवलम्, न तु द्रव्यस्य " इति । यथा सुवर्णद्रव्यस्य कटककेयूरकुण्डलाद्यभिधाननिमित्तस्य गुणस्यान्यथात्वं न सुवर्णस्य, तथा धर्मस्यानागतादिभावादन्यथात्वम् । तथा हि—अनागतभावपरित्यागेन वर्त्तमानभावं प्रतिपद्यते धर्मः, वर्त्तमानभावपरित्यागेन चातीतभावम्, न तु द्रव्यान्यथात्वम्; सर्वत्र द्रव्यस्याव्यभिचारात् । अन्यथाऽन्य एवानागतः, अन्यो वर्तमानः, अन्योऽतीतः - इति प्रसज्येत । कः पुनर्भावस्तेनेष्टः ? गुणविशेषः, यतोऽतीताद्यभिधानज्ञानप्रवृत्तिः ।
लक्षणान्यथावादी भदन्तघोषकः । स किलाह - धर्मोऽध्वसु वर्त्तमानोतीतोऽतीतलक्षणयुक्तोऽनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्तः । यथा - पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्तः, एवमनागतप्रत्युत्पन्नावपि वाच्यौ ।
अस्य ह्यतीतादिलक्षणवृत्तिलाभापेक्षो व्यवहार इति पूर्वकाद् भेदः ।
अवस्थान्यथावादी भदन्तवसुमित्रः । स किलाह - " धर्मोऽध्वसु वर्त्तमानोऽवस्थामवस्थां प्राप्यान्योऽन्यो निर्दिश्यतेऽवस्थान्तरतः, न द्रव्यतः; द्रव्यस्य त्रिष्वपि कालेष्वभिन्नत्वात् । यथा मृद्गुडिका एकाङ्के प्रक्षिप्ता एकमित्युच्यते, शतांके शतम्, सहस्रांके सहस्रम् ; तथा कारित्रेऽवस्थितो भावो वर्त्तमानः, ततः प्रच्युतोऽतीतः, तदप्राप्तोऽनागतः " इति । अस्य १ - १. हेम्रो ऽनुगमसाम्येन स्थिरत्वं मन्यते तदा- पा०, गा० ।
२. ०रूपाद्विभावा- पार, गा।
३. वाच्ये- पा०, गा० ।