________________
स्वतःप्रामाण्यपरीक्षा
६८९
व्यभिचारिज्ञानोत्पादकम्, गुणसमवधाने तु सामग्रयन्तरमाविसंवादिज्ञानोत्पादकमिति? सत्यमेवमेतत्; अन्वयव्यतिरेकाभ्यां तु विज्ञानोत्पादकमेव त्रैरूप्यमनुमानादौ प्रामाण्योत्पादक दृष्टमिति प्रत्यक्षेऽपि च सम्भवात् तदेवोत्पादं कल्प्यते। विपर्यज्ञानरूपं तु कार्यमिन्द्रियादिस्वरूपादनुत्पद्यमानं सामग्रंयन्तरं कल्पयतीत्यनवद्यम्" इति।
ततेदत् सर्वं नानवद्यम्; तथा हि यत् तावदुक्तम्-'अर्थाविसंवादित्वमेव ज्ञानस्य प्रामाण्यम्, तच्वात्मीयादेव हेतोस्तस्योपजायते' इति, अत्र सिद्धसाध्यता; यत इष्यत एवास्माभिः 'प्रमाणमविसंवादि ज्ञानम्' इति वचनादर्थाविसंवादित्वं ज्ञानस्य प्रामाण्यम्। किन्तु 'ज्ञानम्' इति विशेषेणोपादानाद् धूमादेरज्ञानस्वभावस्य मुख्यतः प्रामाण्यं नेष्टमित्यर्थाविसंवादित्वमात्रं प्रामाण्यमसिद्धम्; ज्ञानस्यैव हेयोपादेयवस्तुनि प्रवृत्तौ प्राधान्यात्। तथा हि-सत्यप्यविनाभाविनि धूमादौ न तावत् पुरुषस्यार्थे प्रवृत्तिर्भवति यावद्विज्ञानोत्पादो न भवति । तस्मात् प्रवृत्तौ ज्ञानस्याव्यवहितं कारकत्वमिति तदेव प्रमाणम् । यदाह
"धीप्रमाणता। प्रवृत्तेस्तत्प्रधानत्वाद्धेयोपादेयवस्तुनि ॥" ( प्र० वा० १ . ५ ) इति। यच्चाविसंवादित्वं ज्ञानस्यार्थप्रापणशक्तिलक्षणम्, तत्त्वर्थप्रापणमेव; प्रतिबन्धादिसम्भवात् । शक्तिश्च पदार्थानामात्मभूतैवेति कस्तस्या अर्थान्तरादुत्पत्तिमिच्छेद्, येन सा निषिध्येत! न हि तन्निष्पत्तावनिष्पन्नो धर्मस्तत्स्वभावो युक्तः; अतिप्रसङ्गात्। सा च प्रमाणस्यात्मभूताऽपि सती भ्रान्तिकारणसद्भावादनधिगतकार्यैरवसातुं न पार्यत इति परतोऽर्थक्रियाज्ञानाख्यात् कार्यानिश्चीयते । अतो निश्चयापेक्षया परतः प्रामाण्यमित्युच्यते, नोत्पत्त्यपेक्षया। तेन कारणान्तरादुत्पादप्रतिषेधवैयर्थ्यम्; विवादाभावात्। निश्चयस्तु शक्तीनां परतो भवद्भिरपीष्यत एव। यथोक्तम्- "शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः" (श्रो० वा०, चो० सू० २००) इति। यश्च-"न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते" (तत्त्व० २८१२) इत्येष सामग्र्यन्तराद् भावनिषेधाय हेतुरुपवर्ण्यते, असावप्रमाणेऽपि समान इति तदपि स्वत एंव प्रसज्येत । न वा स हेतुः; व्यभिचारात्। .
___ यच्चोक्तम्-'न हि विधिमुखेन गुणानामप्रामाण्योत्पत्तौ व्यापारः प्रतीतः सम्भवति' इति, एतदप्यन्वर्थवचनमनुन्मीलितार्थ न ज्ञायते । कोऽयं विधिमुखेन व्यापोर नामेति? यदि तावद्'इदं चेदं करिष्यामि' इति कार्योत्पादाय बुद्धिपूर्वा प्रवृत्तिः, सा नेन्द्रियादिष्वपि सम्भवति। न हि भावानां प्रेक्षापूर्वकारिताऽस्ति; सर्वभावानां क्षणिकत्वेन समीहाव्यापारयोरसम्भवात्। ततश्चेन्द्रियादेरपि विधिमुखेन व्यापारासम्भवात् कारणत्वं न स्यात् । अथेन्द्रियादि विनापि क्रियाख्यव्यापारसमावेशं [G.814] सत्तामात्रेण कार्योत्पत्तौ व्याप्रियत इति कारणमिष्यते, तदेतद् गुणेष्वपि समानम् । न हि सर्वकारणानां कार्योत्पत्तौ नियतः स्वसत्तासन्निधानव्यतिरेकेणान्यो व्यापारः प्रतीतः सम्भवति।
__ अथ गुणसन्निधाने दोषनिवृत्तौ सत्यां प्रामाण्यमुपजायत इति दोषनिवृत्त्या व्यवह१. तच्चा०-०।
२. रवमातुं-पा०, गा०।। ३. कार्ये निश्चीयते- पा०, गा०।
४. ०प्यन्वयवचन०- पा०, गा० ।