________________
६८८
तत्त्वसंग्रहे
सम्भवात् । बोधविशेषः प्रामाण्यमिति चेत् ? न तर्हि वक्तव्यम् - तच्च ज्ञानानां स्वाभाविकमेव, गुणकृतम्, गुणाभावेऽपि विपर्ययज्ञाने सद्भावादिति । तथा हि-यदि बोधविशेषः प्रामाण्यमिष्टं स्यात्, तदा तस्यैव गुणकृतत्वे व्यभिचारोपदर्शनं युक्तम्, नान्यस्य । न च विपर्ययज्ञानेऽपि [G.812] सद्भावादित्यनेन बोधविशेषस्य गुणकृतत्वे व्यभिचारो दर्शितः, किं तर्हि ? बोधसामान्यस्य । न च परेण बोधसामान्यं गुणकृतमिष्यते, किं तर्हि ? बोधविशेषः । न च तस्य गुणकृतत्वे व्यभिचारः शक्यते प्रतिपादयितुम् । न चाप्यस्माभिर्गुणकृतत्वेन परतः प्रामाण्यमिष्टम्; यतस्तन्निषेधेन भवद्भिः स्वतो व्यवस्थाप्यते, किं तर्हि ? अनुभूतोऽप्यसौ बोधविशेषः क्वचिद् भ्रान्तिनिमित्तसद्भावाद् यथानुभवं न निश्चयमुत्पादयतीति । अतस्तन्निश्चयोत्पत्तेः परत इति व्यवस्थाप्यते ।
किञ्च-अप्रामाण्येऽपि शक्यमेवं कल्पयितुम् - "बोधात्मकत्वं नामाप्रामाण्यम्, तच्च ज्ञानानां स्वाभाविकम्, न दोषकृतम्, दोषाभावेऽपि सम्यग्ज्ञाने सम्भवादित्यतः स्वतोऽप्रामाण्यमुच्यते । दोषैस्तु गुणनिराकरणमेव क्रियत इत्यतस्तन्निराकरणायाप्रामाण्यं दोषानपेक्षते, नात्मप्रतिलम्भाय " इति । तस्माद्यत्किञ्चिदेतत् ।
उव्वेयकस्त्वाह’–‘“न बोधात्मकत्वं नाम ज्ञानानां प्रामाण्यम्, किं तर्हि ? अर्थाविसंवादित्वम् । तथा हि—- सत्यपि बोधात्मकत्वे यत्रार्थाविसंवादित्वं नास्ति तत्राप्रामाण्यम्, यथा शुक्तिकायां रजतज्ञानस्य । विनापि बोधकत्वं यत्रार्थाविसंवादित्वमस्ति तत्र प्रामाण्यम्, यथा - अग्नौ धूमस्य । तस्मादन्वयव्यतिरेकाभ्यामविसंवादित्वमेव प्रामाण्यं सिद्धम् । तच्च ज्ञानमात्मीयादेव हेतोरुपजायते; न सामग्र्यन्तरादित्यतः 'स्वतः सर्वप्रमाणानां प्रामाण्यम्' इत्युच्यते; स्वशब्दस्यात्मीयवचनत्वात् । स्वतः आत्मीयाद्धेतोरित्यर्थः । " न हि स्वतोऽसती शक्तिः।' इत्यादिना पश्चादर्द्धेन सामग्र्यन्तराद् भावनिषेधे हेतुरुक्तः । न हि स्वतोऽसती कर्तुमन्येन विज्ञानसामग्र्यन्तरातिरिक्तेन शक्यत इत्यर्थः ।
स्यादेतत्-विज्ञानहेतवोऽपि प्रमाणाप्रमाणसाधारणाः, तत् कथं विज्ञानहेतुमात्रप्रतिबद्धं प्रामाण्यं स्यात्, तस्मात् सामग्र्यन्तरजन्यमेव प्रामाण्यम्, न तु ज्ञानहेतुमात्रजन्यम् तच्च सामग्र्यन्तरं गुणसहितमेवेन्द्रियादि । यथोक्तम्'– “ इन्द्रियादिगुणाश्चास्य कारणम्' ( ) इति । शाब्दे चाप्तप्रणीतत्वमेव कारणगुणत्वेन व्यवहारान्निश्चितम् । वेदे च तद्भावादप्रामाण्यं प्रसक्तमिति ? नैष दोषः; सामग्र्यन्तरजन्यत्वासिद्धत्वात् । न हि विधिमुखेन गुणानां प्रामाण्याख्यकार्योत्पत्तौ व्यापारः प्रतीतः सम्भवति । इन्द्रियादिरूपमेव ' ह्यन्यनिरपेक्षमर्थाविसंवादिज्ञानोत्पादकम्। अञ्जनादीनां तु दोषापगमे व्यापारः, न गुणाधाने ।
अथापि स्यात्–इन्द्रियादिस्वरूपमप्रामाण्येऽप्यस्तीति सर्वत्र प्रामाण्योत्पत्तिप्रसङ्गः अविकलकारणत्वात् ? नैतदस्ति; दोषसमवधाने तु सामग्र्यन्तराद् विलक्षणकार्योत्पत्ति- भविष्यति ।
स्यादेतत्- विपर्ययः कस्मान्न | G. 813 ) विज्ञायते - इन्द्रियादिस्वरूपमेवान्यनिरपेक्ष
२. बोधात्मकत्वं- गा० 1
३- ३. पा०, गा० पुस्तकयोर्नास्ति
५. स्वरूपमेव- पा०, गा० ।
१. उवेयक - पा०, गा० । ४. तदसद्भावा- गा० ।