________________
स्वतःप्रामाण्यपरीक्षा
६८७ जगदीदृशमेव सिध्येत् । न चादर्शनमात्रेण वस्तूनां नास्तिता सिध्यति; सत्यपि वस्तुनि क्वचिददर्शनात्, वस्त्वभावेन दर्शनमात्रस्य व्याप्त्यसिद्धेः ॥ ३११७॥
किञ्च-वेदस्य स्वतःप्रामाण्यानित्यं स्वार्थस्वरूपविषयनिश्चयोत्पत्तेः सम्मोहाभावात्, नित्यत्वाच्च स्वभावान्यथात्वस्य कर्तुमशक्यत्वात्-उभयथापि न विनाशः सम्भवति भवन्मतेनेत्यतो वेदाध्यायिभिरस्य निष्फलमेव रक्षा क्रियत इत्येतद् दर्शयति
स्वतःप्रामाण्यपक्षे तु निश्चयं कुरुते स्वतः। वेदः स्वार्थस्वरूपे च तन्न मोहादिसम्भवः ॥३११८॥ अतश्चाज्ञानसन्देहविपर्यासास्पदे . स्थिते। नोपदेशमपेक्षेत द्विजपोतोऽपि कश्चन ॥३११९॥ तथा' चाज्ञानमूलस्य न विनाशोऽपि सम्भवी।
को वा विनाशो नित्यस्य भवेद् वज्रातिशायिनः ॥३१२०॥ [G.811] द्विजपोत:ब्राह्मणशिशुः ॥ ३११८३१२० ॥
एवं तावत स्वतः प्रामाण्याद् विनाशोऽस्य न सम्भवतीति प्रतिपादितम्। इदानीं नित्यत्वादपि न सम्भवतीत्येतद् दर्शयितुं पृच्छति
अभिव्यक्त्यन्यथात्वं चेन्नित्ये सा न त्वपाकृता।
अतो रक्षामपि प्राज्ञा निष्फलामस्य कुर्वते ॥३१२१॥ विनाश इति सम्बन्धः । सेति अभिव्यक्तिः । अस्येति वेदस्य ॥ ३१२१ ।। अतीन्द्रियेत्यादिनोपसंहरति. अतीन्द्रियार्थदृक् तस्माद् विधूतान्तस्तमश्चयः।
वेदार्थप्रविभागज्ञः कर्ता चाभ्युपगम्यताम्॥३१२२॥ । . अन्तस्तमः क्लिष्टाक्लिष्टमज्ञानम्, तस्य चयः संहतिः, स विधूतो येन स तथोक्तः । प्रविभागज्ञ: व्याख्याता। कर्तेति । वेदस्येति शेषः । तदेव प्रतिज्ञातार्थस्य सर्वथा प्रमाणबाधितत्वम्, हेतोश्च 'तद्भावभावभावित्वात्' इत्येतस्यानैकान्तिकत्वं साधितम्। सपक्षसिद्ध्यर्थं च प्रमाणं 'यः सन्देहविपर्यासविषयैः' (तत्त्व० २९३८) इत्यादिना प्रदर्शितमिति क्षेपार्थः ॥
यत्तु पक्षचतुष्टयमुपन्यस्य पक्षत्रये दोषाभिधानं कृतम्, तत्रापि न काचित् बौद्धस्य क्षति:', नहि बौद्धै रेषां चतुर्णामेकंतमोऽपि पक्षोऽभीष्टः; अनियमपक्षस्येष्टत्वात् । तथा हिउभयमप्येतत्किञ्चित् स्वतः, किञ्चित् परत इति पूर्वमुपवर्णितम्। अत एव पक्षचतुष्टयोपन्यासोऽप्ययुक्तः; पञ्चमस्याप्यनियमपक्षस्य सम्भवात्।
अपरे त्वन्यथा प्रतिज्ञार्थं वर्णयन्ति-बोधात्मकत्वं नाम प्रामाण्यम्, तच्च ज्ञानानां स्वाभाविकमेव, न गुणकृतम्; गुणाभावेऽपि विपर्ययज्ञाने बोधात्मकत्वसम्भवात्। अतः स्वतः प्रामाण्यमित्युच्यते । गुणैस्तु दोषनिराकरणमेव क्रियत इत्यतस्तन्निर्घाताय प्रामाण्यं गुणानपेक्षते, नात्मप्रतिलम्भायेति? तदेतदसम्यक्; यतो न बोधात्मकत्वमेव प्रामाण्यं युक्तम्; विपर्ययज्ञानेऽपि १. यथा-गा०।
.. २. चाज्ञातमूलस्य-पा०, गा० । ३-३. नन्वपाकृता-पा० गा०।
४. कृति:-पा०।