________________
६८६
तत्त्वसंग्रहे रागद्वेषादियुक्ताँस्तु' रुन्धद्भिर्वेदनाशिन:।
सर्वदा रक्षितो वेदः स्वरूपं न प्रहास्यति॥३११२॥ तथा हि-यदि वेदाध्यायिनः शुद्धधियोऽपि परैर्विनाश्यमानं वेदमौदासीन्यमालम्बना नाचक्षीरन्, तदा सम्भाव्यते-अन्य एवायं वेदः प्रतिच्छायतां यात इति; यावता तैर्विशुद्धधीभिर्वेदविनाशिनो नरान् रागादिपरीतचेतसो रुन्धद्भिः निवारयद्भिः सदैवायं संरक्षितो वेद इति स कथमात्मस्वरूपं जह्यात् ! ॥ ३११०-३११२॥ .
स्यादेतत्-यद्यपि सर्वदा रक्षितस्तैर्वेदः; तथापि महाप्रलये समुच्छिन्नस्यास्य पश्चादन्यथात्वमपि सम्भाव्यते? इत्याशङ्कयाह
इष्यते च जगत् सर्वं न कदाचिदनीदृशम्।
न महाप्रलयो नाम ज्ञायते पारमार्थिकः॥३११३॥ नैतदेवमित्यादिना प्रतिविधत्ते
नैतदेवम्; भवेन्नाम ह्येवं पाठस्य तुल्यता। .
तदर्थतत्त्वबोधस्तु न विनाऽत्यक्षदर्शनम्॥३११४॥ एवं हि किल केवलपाठमात्रस्य तुल्यत्वं प्रतिपादितम्, न त्वर्थाविगमोपायः, ततश्च तदर्थमवश्यं निश्चितनिर्दोषकृताख्यातत्वमस्येष्टव्यमेव ॥ ३११४॥ [G.810] न चापि पाठमात्रस्यादर्शनमात्रेणासर्वविदा सर्वदेशादौ तौल्यं निश्चेतुं शक्यत इति दर्शयति
सर्वे च यस्य पुरुषा देशकालौ. तथाखिलौ। करामलकवद् व्यक्तं वर्तन्तेऽध्यक्षचेतसि॥३११५॥ स पाठस्यापि तुल्यत्वं बोद्धं शक्तोऽन्यथा पुनः।
देशकालनरावस्थाभेदेन विमतिः कथम्॥३११६॥ अत्रैवोपपत्तिमाह- अन्यथेत्यादि। यदि पाठस्य तुल्यत्वं भवेत्, तदा क्वचिद् देशादौ पाठं प्रति पुंसां विमतिः संशयो न प्राप्नोति ॥ ३११५-३११६ ॥ "इष्यते च जगत् सर्वम्" (तत्त्व० ३११३) इत्यादावाह
जगत् सदेदृशं चेति न प्रमाणमिहापि वः।
न युक्ताऽदृष्टिमात्रेण संवतस्यापि नास्तिता॥३११७॥ सदेदृशमित्यादि। ईदृशमेव सर्वदा जगदित्यत्र न किञ्चित् साधकं प्रमाणमस्ति। यश्च बौद्धैः "संवर्तकल्पो नरकासम्भवात्५ प्रतिभाजनक्षयः" ( . ) इति संवर्तकल्पो वर्ण्यते, यच्च स्मृतिकारैरुच्यते
"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्।
अप्रवर्त्यमविज्ञेयं सुषुप्तमिव सर्वतः ॥" ( मनु० ५ . ५ ) इति; तदेतदस्य द्विविधस्यापि संवतस्य न किञ्चिद् बाधकं प्रमाणमस्ति, येन सर्वदा १. युक्तांस्तु- पा०, गा०। २. रुध्रद्भिर्वेदविनाशिन:- जै०। ३-३. ०मानान् वेदानी-पा०, गा० । ४. त्वधविगमो०- पा०; त्वार्थाधिगमो०- गा०। ५. नाशकाo- गा०। ६. पा०. गा०. पुस्तकयो स्ति।