________________
.
स्वतःप्रामाण्यपरीक्षा
६८५ न हि साधर्म्यमात्रं बौद्धर्वेदे बाधकं प्रमाणमुच्यते, किं तर्हि ? तदुक्तस्यात्मसामान्यादेः पदार्थस्य प्रमाणबाधनात्। एतच्चात्मपरीक्षादौ प्रतिपादितम्।
किञ्च-श्रुतिपरीक्षायां वेदानां पौरुषेयत्वस्य साधितत्वात्, सत्यपि वा अपौरुषेयत्वे दाववढ्यादिवन्मिथ्यात्वकारणतासम्भवात् अप्रामाण्यमस्य सम्भाव्यत इत्येवमुच्यते, न साधर्म्यमात्रम्।
स्यादेतत्, यदि नाम सम्भाव्यते, तथापि सम्भावनामात्रात् कथमप्रामाण्यमस्य सिध्यति? इत्याह
दृष्टदोषाच्च शङ्कयदोषं न भिद्यते॥३१०५॥ शङ्ख्या दोषा यस्मिन् वाक्ये तत् तथा। न भिद्यत इति। उभयस्यापि प्रामाण्यं' सद्व्यवहारनिषेधयोग्यतया तुल्यत्वात् ॥ ३१०३-३१०५ ॥ तस्मादित्यादिनोपसंहरति
तस्मात् स्वतःप्रमाणत्वं वेदस्यापि न युज्यते।
तेन निश्चितनिर्दोषकृताख्यातत्वमिष्यताम्॥३१०६॥ कृतश्चासावाख्यातश्चैति तथोक्तः। आख्यातः व्याख्यातः, निर्दोषैः पुरुषैः कृताख्यात् इति तृतीयासमासः, तद्भावस्तत्त्वम्, निश्चितं च तन्निर्दोषकृताख्यातत्वं चेति विग्रहः । तदेतदिष्यताम्, वेदस्य प्रामाण्यसिद्धय इति सम्बन्धः । ततश्चैवमिष्यमाणे परत:प्रामाण्यं स्याद्, अनिष्यमाणे त्वप्रामाण्यमेवेति भावः ॥ ३१०६॥
"निश्चितनिर्दोषकृताख्यातत्वमिष्यताम्" इत्यत्र कुमारिलस्योत्तरमाह.: रागद्वेषादियुक्ता हि प्रवक्तारो यथा यथा।
तथा तथा हि रक्षन्ति स्वाध्यायं सुतरां ननु॥३१०७॥ कस्य किं दुर्बलं को वा कस्मात् पूर्वं प्रपाठकः। कः स्वरक्षामतां कुर्यात् को भिन्दयादपदे पदम्॥३१०८॥ इति यस्य हि संरब्धाः सन्ति रन्ध्रगवेषिणः।
कथं न नाम निर्दोषं स पठेद् वेदमादृतः॥३१०९॥ [G.809] कस्याध्येतुः किं स्मृतिमेधादि' दुर्बलम्, को वा कुतोऽधीतवान्, को वा स्वरस्योदात्तादेः क्षामतामन्यथात्वं कुर्वीत, अपदमेव वा कः पदत्वेन भित्त्वा पठेत्-इत्येवं यस्य वेदपाठकस्य रन्ध्र निरूपयन्तो वेदाध्यायिनो नराः संरब्धाः समारब्धवीर्याः सन्ति, स कथं वेदपाठो वेदमादरान पठेत् । ततश्चास्य वेदस्याप्रामाण्यशङ्काया अभावात् किमिति निश्चितनिर्दोषकृताख्यातत्वमिष्यतामित्यभिप्रायः ॥ ३१०७-३१०९॥
शुद्धाश्चेदभ्युदासीनाः स्युर्वेदाध्यायिनो नराः। आचक्षीरन् परैरेवं न ते वेदं विनाशितम्॥३११०॥ ततः कालेन महता तूपेक्षितविनाशितः।
अन्य एव भवेद् वेदः प्रतिकञ्चकतां गतः॥३१११॥ १-१. प्रमाण्यसद्व्यवहारनिषेधयोग्यतयो:-गा०।
२. स्मृतिमेवाति-पा०।