________________
६८४
तत्त्वसंग्रहे आभ्यासिकं यथा ज्ञानं प्रमाणं गम्यते स्वतः।
मिथ्याज्ञानं तथा किञ्चिदप्रमाणं स्वतः स्थितम्॥३०९९ ॥ अभ्यासे भवमाभ्यासिकम्। यथाऽभ्यासबलात् प्रामाण्यं क्वचित् स्वत एव निश्चीयते इत्युक्तम्, तथा मिथ्यात्वमपि कस्यचित् स्वत एवावसीयते। तथा च दृश्यन्त एव तैमिरिकादयः केचिदभ्यासबलात् केशोण्ड्रकादिविज्ञानमुत्पादसमनन्तरमेव मिथ्यात्वेन निश्चिन्वन्तः ॥ ३०९९ ।। "तदत्राप्यन्यथाभावे धीर्यथा दुष्टकारणे" (तत्त्व० २९१३) इत्यादावाह
बाधकारणदुष्टत्वज्ञानेऽप्युक्ताऽनवस्थितिः। .
तावता तस्य मिथ्यात्वं ग्रहीतुं तन्न पार्यते॥ ३१००॥ उक्तेति
"तथा हि बाधकाभावात्' प्रमाणं भवतोच्यते। बाधाभावोऽप्यभावाख्यं प्रमाणान्तरमिष्यते॥'
(तत्त्व० ३००३) इत्यादिना। तदिति तस्मात् ।। ३१०० ॥ 'उत्पत्त्यवस्थं चैवेदं प्रमाणमिति मीयते' (तत्त्व० २९१४) इत्यत्राह
उत्पत्त्यवस्थमेवेदं प्रमाणमिति मीयते। न तावदविकल्पत्वादनिष्टेश्चात्मसंविदः॥३१०१॥ नापि ज्ञानान्तरेणैव तत्कालेऽसन्निधानतः।
तस्याप्यव्यक्तभावत्वादनिष्टापत्तितोऽपि वा।।३१०२॥ उत्पत्त्यवस्थमित्यादि। उत्पत्त्यवस्थायां किमात्मनैव प्रमाणमिति निश्चीयते? आहोस्विद् विज्ञानान्तरेण सहकालभाविना? यद्वोत्तरकालभाविना?-इति पक्षाः । तत्र न तावदात्मनैव; सर्वज्ञानानामात्मनि निर्विकल्पत्वात् प्रमाणमित्येव ग्रहणमनुपन्नम्। नापि परेण संवेदनं ज्ञानस्येष्टम्; नित्यं बुद्धेः परोक्षत्वाभ्युपगमात्। नापि ज्ञानान्तरेण समानकालभाविना; युगपद्विज्ञानद्वयानुत्पत्तेः। नापि भिन्नकालभाविना; तस्यापि ज्ञानान्तरस्यासिद्धौ तद्ग्राह्यस्यापि ज्ञानस्याव्यक्तिकत्वेनासिद्धेः तस्यापि ज्ञानान्तरेण सिद्धाविष्यमाणायामनवस्थाप्रसङ्गात् ॥ ३१०१-३१०२ ॥ [G.808] "अतो यत्रापि मिथ्यात्वम्" (तत्त्व० २९१५) इत्यादावाह
वेदे तु बाधकं मानमुक्तमेवानुमात्मकम्। तदुक्तात्माद्यपोहेन तस्मान्मानं न युज्यते॥३१०३ ।। पौरुषेयत्वसिद्धेश्च शङ्ख्या दुष्टनिमित्तता। वढेरिव स्वतः शक्तिर्मिथ्याज्ञानेषु वा भवेत्॥ ३१०४॥ चोदनाप्रभवं ज्ञानमतो दुष्टनिमित्तकम्।
शङ्कयते, १. बाधकाकारणाभावात्- जै०।
२. ० तग्राह्यस्यासिद्धो-पा०, गा० ।
३. ऽपि-पा०, गा०।