________________
६८३
स्वतःप्रामाण्यपरीक्षा विरुद्धोपलब्धिः । न चानैकान्तिको हेतुः; तस्य वस्तुनो व्यक्त्युत्पादमन्तरेण प्रत्यक्षत्वे सर्वेषां प्रत्यक्षत्वप्रसङ्गात्। न चैवं भवति, तस्माद्विपर्ययः ॥ ३०९४॥ [G.806] "यथा चाविदितैरेव" (तत्त्व० २९१०) इत्यत्राह
स्वयं तु जडरूपत्वाच्चक्षुरादिभिरिन्द्रियैः।
गृह्यन्ते विषया नैवं तेषां ज्ञाने तु हेतुना॥३०९५॥ विषयवज्जडरूपत्वाच्चक्षुरादीनां न विषयग्रहणं मुख्यतोऽस्ति, केवलं विज्ञानं प्रति हेतुभावमात्रेण तेषां विषयग्रहणं कल्पितमित्यज्ञातैरैव तैर्विषयज्ञानोत्पादकतया विषया गृह्यन्ते इति स्यात्। न त्वेवं विज्ञानेन विषयस्य किञ्चित् क्रियते, येनाज्ञातमपि चक्षुरादिवद् विषयं गृह्णातीति स्यात्। अभिव्यक्तिः क्रियत इति चेत्? न; ज्ञानपर्यायत्वात्। अभिव्यक्तिः, उपलब्धिः, परिच्छित्तिः, संवेदनम्-इत्येवमादयः पर्याया उच्यन्ते, नार्थान्तरम्। न च स्वात्मनः करणं युक्तम्; स्वात्मनि कारित्रविरोधात्। उत्पन्नानुत्पन्नावस्थयोः सदसत्त्वाच्च। तथा हि-उत्पन्नं वा ज्ञानमात्मानं कुर्याद्, अनुत्पन्नं वा? न तावदुत्पन्नम्; तदात्मनोऽप्येकयोगक्षेमतयोत्पन्नत्वात्। न च यो येन सहैकयोगक्षेमो न भवति स तत्स्वभावो युक्त; अतिप्रसङ्गात्। न चोत्पन्नस्य स्वभावस्य करणं युक्तम्; अतिशयस्याभावात्, करणाविरामप्रसङ्गाच्च । नाप्यनुत्पन्नमिति पक्षः, असत्त्वात्। न ह्यसतो व्यापारो युक्तः; तस्य सर्वसामोपाख्याविरहलक्षणत्वात्। व्यापारे सत्यसत्त्वहानिप्रसङ्गात्। इदमेव हि सत्त्वलक्षणं यदर्थक्रियाकारित्वम्। तस्मान्न साम्यं दृष्टान्तस्य दार्टान्तिकेन ॥ ३०९५॥ . ''तेनात्र ज्ञायमानत्वम्" (तत्त्व० २९११) इत्यादावाह. तेनात्र ज्ञायमानत्वं प्रामाण्य · उपयुज्यते।
विषयानुभवो यस्मादज्ञातान्नैव' लभ्यते॥३०९६॥ . ननु च यदि ज्ञानं स्वसंविदा स्वत एव सिद्धम्, तर्हि स्वत एव ज्ञानं प्रमाणम्? इत्याशङ्कयाह
एतावत् तु भवेदत्र ग्रहणेऽपि स्वसंविदः। भ्रान्तिकारणसद्भावात् तथात्वे न विनिश्चयः॥३०९७॥ तदा चार्थतया भावोऽप्यस्मान्नैवावसीयते।
सादृश्यादुपलम्भेन तदन्यारोपसम्भववात्॥३०९८॥ न ह्यनुभूतमित्येव सर्वात्मना निश्चयो जायते; कारणान्तरापेक्षत्वान्निश्चयोत्पत्तेरिति बहुधा प्रतिपादितम् । तेन गृहीतमपि ज्ञानस्य स्वसंविदोऽर्थप्रमाणसामर्थ्यं भ्रान्तिकारणस्याप्रमाणसारूप्यानभ्यासादेः [G.807] सद्भावान्निश्चयानुत्पत्तेरनिश्चितमित्युच्यते; निश्चयानुभवयोर्भेदात् । ततश्च समारोपव्यवच्छेदेन परतः प्रामाण्यमिष्टमित्यदोषः । तथोक्तम्-"स्वरूपस्य स्वतो गतिः, प्रामाण्यं व्यवहारेण" (प्र० वा० १.६.-७) इति। तथात्व इति प्रामाण्ये ॥ ३०९७-३०९८॥
"अप्रमाणं पुनः स्वार्थे" (तत्त्व० २९१२) इत्यादावाह१. ज्ञातो नैव- पा०, गा०।