SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ६८२ तत्त्वसंग्रहे असर्वदर्शिभिर्विप्रैः कुत एतद् विनिश्चितम्। चोदनाजनिता बुद्धिः सर्वसंवादिनीति च॥३०८९॥ "साध्या न चानुमानेन" (तत्त्व० २९०५) इत्यादावाह निश्चितोक्तानुमानेन प्रत्यक्षस्यापि मानता। शुद्धकारणजन्यत्वात् तत् प्रमाणं तदन्यवत्॥३०९०॥ अनिष्टापत्तिर्हि प्रसङ्ग उच्यते, न च प्रत्यक्षस्यानुमानतः प्रामाण्यसिद्धिर्नेष्टा, येन प्रसङ्गापादनं स्यात्। तथा चानुमानेन प्रत्यक्षस्य प्रामाण्यं साध्यते, तथा पूर्वमुक्तम्। तदेव स्मारयतिं शुद्धकारणजन्यत्बात् तत् प्रमाणमिति। तदन्यवदिति सन्निकृष्टविषयग्राहिप्रत्यक्षवत्॥ [G.805] "प्रमाणानां प्रमाणत्वं येन चान्येन साध्यते" (तत्त्व० २९०६) इत्यादावाह सर्वस्य च न साध्येयं प्रमाणान्तरतः प्रमा। यस्मादर्थक्रियाज्ञाने भ्रान्तिर्नास्तीति साधितम्॥३०९१॥ यथा चार्थक्रियाज्ञाने भ्रान्तिर्नास्ति, तथा पूर्वम्, 'उच्यते वस्तुसंवादे' (तत्त्व० २९५८) इत्यादिना प्रसाधितम् । तेनार्थक्रियाज्ञानसंवादात् प्रामाण्ये नानवस्था भवति ॥ ३०९१ ॥ अनुमानेनापि साध्ये न भवत्येवेति दर्शयति- . आत्मकार्याख्यलिङ्गाच्च निश्चिताव्यभिचारतः।। जायमानेऽनुमानेऽपि भ्रान्तिरस्ति न काचन॥३०९२॥ आत्मा च स्वभावः कार्यं चेति तथोक्तम्, तदाख्या यस्य लिङ्गस्येति विग्रहः । निश्चितोऽव्यभिचारो यस्य लिङ्गस्य तत् तथोक्तम्। एतदुक्तं भवति- तादात्म्यतदुत्पत्तिसम्बन्धाभ्यां प्रतिबद्धस्वभावकार्याख्यलिङ्गनिश्चयबलेनोपजायमानमनुमानं विभ्रमकारणाभावात् स्वत एव प्रमाणमिति नानवस्था॥ ३०९२॥ . "अन्येनासाधिता चेत्' (तत्त्व० २९०७) इत्यादावाह क्वचितु विविधभ्रान्तिनिमित्तबलभाविनी। भ्रान्तिरुत्सार्यतेऽनेन यस्मात्तत्र न निश्चयः॥३०९३॥ अभ्यासादेनिश्चियकरणस्याभावात् क्वचिदादये प्रत्यक्षे भ्रान्तिरुत्पदयते इति न तस्य सिध्येत् स्वत एव प्रमाणता ॥ ३०९३॥ "प्रमाणं ग्रहणात् पूर्वं स्वरूपेण प्रतिष्ठितम्" (तत्त्व २९०९) इत्यादावाह अव्यक्तव्यक्तित्वेन व्यक्तोऽर्थो न प्रसिध्यति। परप्रत्यक्षवत् तस्माज्ज्ञानं ज्ञातमितीष्यताम्॥३०९४॥ अव्यक्ता व्यक्तिर्यस्यार्थस्य स तथोक्तः। अवश्यं हि ज्ञानं ज्ञातव्यम्; तदज्ञाने सर्वाज्ञानप्रसङ्गात् । तथा हि- अर्थाभिव्यक्तिरेव ज्ञानमुच्यते; नान्यत्, तस्याश्चभिव्यक्तेः परोक्षत्वेऽर्थस्यापि परोक्षत्वप्रसङ्गः; यथा परसन्तानवर्तिप्रत्ययविषयस्वार्थस्याव्यक्तव्यक्तित्वात् । प्रयोगःयद्यस्याव्यक्तव्यक्तिकं वस्तु, तत् तस्य प्रत्यक्षं न भवति, यथा परसन्तानवर्त्तिनैव प्रत्यक्षेण विषयीकृतमन्यस्य। अव्यक्तव्यक्तिकं च विवादास्पदीभूतं विज्ञानं कस्यचिदिति व्यापक
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy