________________
स्वतः प्रामाण्यपरीक्षा
एत वीणादिरूपग्राहिणी ॥ ३०८२ ॥
“यथा त्वेकेन्द्रियाधीनविज्ञानान्तरसङ्गतिः " (तत्त्व० २९०२) इत्यादावाहनानेन्द्रियाधीनविज्ञानान्तरसङ्गतिः ।
६८१
एवं
प्रत्यक्ष कारणं क्लृप्ता वेदे त्वेषा न दृश्यते ॥ ३०८३ ॥ एषा न दृश्यत इति । नानेन्द्रियाधीना विज्ञानान्तरगतिः १ ॥ ३०८३ ॥ कथमसौ प्रत्यक्षे कारणं क्लृप्ता ? इत्याह
तथा हि सलिलज्ञानमाद्यमुत्पद्यतेऽक्षिजम्। पानस्त्रानादिनिर्भासं जिह्वाकायाश्रितं परम् ॥ ३०८४ ॥ अक्षिजमिति रूपविषयं चक्षुर्विज्ञानमित्यर्थः । परमिति उत्तरकालभावि ॥ ३०८४ ॥ " एकेनैव हि वाक्येन (तत्त्व० २९०३) इत्यादावाह—एकेनापि तु वाक्येन देशकालनरादिषु ।
लभ्यते नार्थसंवादः सर्वस्मिन् संशयोदयात् ॥ ३०८५ ॥ अग्निहोत्राद् भवेत् स्वर्ग इतीत्थं श्रूयते समम् ।
निश्चयाङ्गवियुक्तं हि शब्ददर्दुरमात्रकम् ॥ ३०८६ ॥
[G.804] अनेनासिद्धतामर्थसंवादस्याह । तथाहि - 'अग्निहोत्रात् स्वर्गो भवति' इत्यतो वाक्यात् प्रेक्षावतो निश्चयकारणाभावात् संशयो जायत एवेति न देशकालादौ संवादसिद्धिः ॥ ३०८५
३०८६ ॥
नापि नरान्तरे सर्वत्र संवादो लभ्यत इति दर्शयन्नाह -
स्वर्गादौ मतभेदश्च विप्राणामपि दृश्यते ।
लभ्यते नार्थसंवादः तस्मादिह नरादिषु ॥ ३०८७ ॥
तथा हि – मनुष्यातिशायिपुरुषविशेषनिकेतः सुमेरुगिरिशिखरादिदेशविशेषोऽधिंमानुषसुखाधिष्ठानो नानोपकरणसमृद्धः स्वर्ग इति निरुक्तकारादयो वर्णयन्ति । प्रीतिविशेषो मनुष्याणामेव स्वर्ग इति मीमांसकाः । यागेऽपि विप्रतिपत्तिर्दृश्यते - श्रूयते हि पुराकाले पिष्टमयः पशुर्येनायजन्त यज्वान इति, अन्यैस्तु दुरात्मभिर्निष्कृपैः प्राणिविशेष एव पशु वर्णितम् ॥ ३०८७॥
"तस्माद् दृढं यदुत्पन्नम् ” ( तत्त्व० २९०४) इत्याह
चोदनाजनिते ज्ञाने दार्यं प्रागपहस्तितम् ।
दर्शयति
१. ० न्तरसङ्गतिः- पा०, गा० ।
गब्ददद्दुर० - पा० !
सन्दिग्धो हि तथाभावस्तद्ग्राह्यस्यान्यसाम्यतः ॥ ३०८८ ॥
प्रागिति श्रुतिपरीक्षायाम् । अन्यसाम्यतइति । 'अग्निहोत्रात् स्वर्गो न भवति' इत्यादिपौरुषेयवचनसमुद्भूतप्रतीत्या तुल्यत्वात् ॥ ३०८८ ॥
किञ्च - वाङ्मात्रमेतद् भवताम्, यथा - चोदनाजनिता बुद्धिर्देशादिषु न विसंवदतीति