________________
६८०
तत्त्वसंग्रहे यदि चार्थक्रिया प्राप्तैति। तदा निश्चयस्तत इति प्रकृतेन सम्बन्धः । ननु चार्थक्रियाज्ञानस्यान्यविषयत्वात् पूर्वप्रत्ययप्रामाण्यस्य सिद्धिस्ततो न युक्ता । तथा हि-अवयविद्रव्यासम्भवाजलविषयं लोचनज्ञानं रूपमात्रग्राहि, स्नानाद्यर्थक्रियाज्ञानं तु स्पर्शमात्रगोचरमिति कथमन्यालम्बनं ज्ञानमन्यविषयस्य ज्ञानस्य प्रामाण्यं साधयेद्; अतिप्रसङ्गात् ? नैष दोषः; एकसन्तावर्त्तिनो विषयद्वयस्याविनाभावादन्यालम्बनमपि ज्ञानमन्यविषयस्य ज्ञानस्य प्रामाण्यं साधयिष्यति। न हि तौ रूपस्पर्शी विनिर्भागेन वर्तेते, एकसामग्र्यधीनत्वात्। तत्र पूर्वस्य ज्ञानस्यानर्थेऽप्यर्थरूपेण प्रवृत्तिदर्शनादुत्तरकालभाविनस्तद्विषयाविनाभूतस्पर्शग्राहिणो ज्ञानान्न निश्चयोत्पत्तिरपेक्ष्यते । नन्वेवमपि क्षणिकत्वात् सर्वभावानां पूर्वज्ञानपरिगृहीतरूपाविनाभाविस्पर्शे नैवोत्तरज्ञानप्रवृत्त्या विषयीकृत इति कथं ततो विनिश्चयः? नैष दोषः; उत्तरेषां रूपादिक्षणानां पूर्वज्ञानगृहीतै रूपादिक्षणैरविशिष्टार्थक्रियावाञ्छायामभिन्नयोगक्षेमत्वादैक्यमेव व्यवह्रियते। न ह्यग्दिर्शनानां क्षणैर्व्यवहारः। अथवा-पूर्वज्ञानपरिच्छिन्नरूपाद्यर्थाविनाभावादुत्तरज्ञानविषयस्य तत्कारणतया सत्यपि भेदव्यवहारे ततो निश्चयो न विरुध्यते ॥ ३०७६३०७८॥ यदुक्तम्- "श्रौत्रधीश्चाप्रमाणं स्यात्" (तत्त्व० २८९९) इत्यादि, तत्राह
श्रोत्रबुद्धेरपि व्यक्ता नेत्रादिमतिसङ्गतिः । एकसामग्रयधीनं हि रूपशब्दादि वर्त्तते॥३०७९॥ परस्पराविनिर्भागात् सन्तत्यान्योन्यकारणम्। तेषामस्त्येव सम्बन्धस्तदेवं सुपरिस्फुटम्॥३०८०॥ तद्धियामपि तदद्वारा धूमेन्धनविकारवत्।
श्रोत्रधीस्तत्प्रमाणं स्यात् तदन्यमतिसङ्गतेः॥३०८१॥ [G.803] इतराभिश्चक्षुरादिधीभिरसङ्गतिर्नैव सिद्धा। तथा हि-वीणादिशब्दस्य तत्सम्बन्धिनश्च रूपादेरेकसामग्र्यधीनत्वात् परस्पराभिर्निर्भागलक्षणो' धूमेन्धनविकारयोरिव सम्बन्धोऽस्त्येव। प्रबन्धवृत्त्यपेक्षायां च पूर्वपूर्व: कलापोऽन्यस्योत्तरोत्तरस्य कारणं भवतीति साक्षाच्च कार्यकारणभावलक्षणोऽपि सम्बन्धोऽस्त्येव। ततश्च तद्ग्राहिणामपि ज्ञानानां तद्द्वारकपारम्पर्येण सम्बन्धोऽस्ति। तत् तस्माच्छोत्रधीः प्रमाणं भवत्येव; तदन्याभिश्चक्षुरादिमतिभिर्यथोक्तसम्बन्धसद्भावात्। तथा हि-दूराद् वीणादिशब्दाश्रयणात् तदर्थिनो वेण्वादिशब्दसाधादुपजातसंशयस्य पुंसः प्रवृत्तौ वीणारूपदर्शनाद् यः प्रागुपजातः संशयः-किमयं वीणाध्वनिः, उत वेणुगीतादिशब्द इति, स व्यावर्त्तते। यत्र च देशे मृदङ्गादिप्रतिशब्दश्रवणात् प्रवृत्तस्य तदर्थाधिगतिर्न भवति, तत्र विसंवादादप्रामाण्यं प्रत्येति ॥ ३०७९-३०८१ ॥ "साधनान्तरजन्या तु बुद्धिर्नास्ति द्वयोरपि" (तत्त्व० २९०१) इत्यादावाह
साधनान्तरजन्या तु बुद्धिरेषा विनिश्चिता।
हेत्वन्तरकृतज्ञानसंवादस्तेन - वाञ्छ्यते॥ ३०८२॥ १. स्तनाद्यर्थ-पा०। २. शोधयेद्-पा०, गा०।
३. स्पर्शो-पा०, गा०। ४. नेतराभिरसङ्गतिः-गा। ५. स्पराभिविभाग०-पा०, गा० ।