________________
स्वतःप्रामाण्यपरीक्षा
६७९ "अतो यदनपेक्षत्वात्" (तत्त्व० २८९५) इत्याह
अतो यदनपेक्षत्वाद् वेदे प्रामाण्यमुच्यते।
तदसिद्धं यतः सोऽपि कर्तारं समपेक्षते॥३०७१॥ सोऽपति वेदः ॥ ३०७१ ॥ "वेदार्थेऽन्यप्रमाणैर्या" (तत्त्व० २८९५) इत्यादावाह
यदि संवादिविज्ञानं न वा हेतुविशुद्धता।
निश्चिता संशयोत्पत्तेस्तदा वेदे न मानता॥३०७२॥ यद्यर्थक्रियासंवादिज्ञानं कारणविशुद्धिज्ञानं च द्वयमप्येतत् प्रामाण्यनिश्चयकारणं वेदे नाङ्गीक्रियते, तदा निश्चयहेतुवैकल्याद् वेदे प्रामाण्यनिश्चयो न प्राप्नोति; कारणमन्तरेण कार्यस्यासम्भवात् ॥ ३०७२॥ "अन्यस्यापि प्रमाणत्वे" (तत्त्व० २८९७) इत्यत्राह
अन्यस्यापि प्रमाणत्वे एवम्भूतैव सङ्गतिः।
कारणं कल्प्यते.यस्माद् निश्चयस्तनिबन्धनः॥३०७३॥ एवम्भूतैवेति संवादगुणपरिज्ञानलक्षणा । अत्र चानवस्थादोषः पूर्वमेव परिहतः। तस्माद् यत् प्रमाणं न तत् प्रमाणान्तरसङ्गतिमपेक्षत इत्येतदनैकान्तिकम्; निश्चयार्थं प्रमाणान्तरस्यापेक्षणात् ॥ ३०७३॥ . . एतदेव दर्शयति
स्थिते हि तस्य मानत्वे निश्चयः क्रियतेऽनया। . न त्वपूर्वं प्रमाणत्वमनया • तस्य जन्यते॥३०७४॥ ... एतनैतदपि प्रत्युक्तं भवति–“यत्रापि स्यात् परिच्छेदः प्रमाणैरुत्तरोत्तरैः" (तत्त्व० २८९८) इत्यादि। न ह्यन्यतो माननिश्चये तस्य पूर्वस्य ज्ञानस्यार्थप्रापणशक्तिलक्षणं मानत्वमपैति ॥ ३०७४॥
"सकृज्जातविनष्टे च भवेन्नार्थे प्रमाणता" (तत्त्व २८९९) इत्याह__सकृजातविनष्टे च स्यादेवार्थे प्रमाणता।
... अनिश्चितेऽपि सास्त्येव निश्चयोऽप्युदितक्रमात्॥३०७५ ॥
सेंति मानता ॥ ३०७५ ॥ [G.802] उदितमेव क्रमं दर्शयन्नाह
यदि कारणशुद्धत्वं विज्ञानं निश्चयस्ततः। यदि चार्थक्रिया प्राप्ता साक्षाद् दाहादिलक्षणा ॥३०७६ ॥ यद्वाऽभ्यासवती वृत्तिनिरपेक्षा फलोदये। सर्वोपायवियोगे तु न प्रमाणविनिश्चयः॥३०७७॥ अतः प्रमाणता तस्मिन् विद्यमानाप्यनिश्चिता।
अविद्यमानकल्पेति नैवास्तीत्यपदिश्यते॥३०७८ ॥ १-१. शुद्धत्वादिज्ञान- पा० गा० ।
२.वाहादि०-पा०; गाहादि०-गा।