________________
६७८
तत्त्वसंग्रहे [G.800] वचनात्। अप्रमाणद्वयासत्त्वमपि पर्युदासपक्षे प्रमाणात्मकमेवावतिष्ठते, ततश्चाप्रमाणद्वयासत्ताज्ञानमपि विवक्षितप्रमाज्ञानस्वरूपं प्रसज्यते, ततश्च "अप्रमाणद्वयासत्त्वं तेनोत्सर्गोऽनपोदितः१" (तत्त्व० ३०५६) इति न युज्यते, दु:शिष्टत्वात् । तथा हि-तस्यैव प्रमाणत्वेन निश्चितत्वात् तस्य प्रमाणत्वं निश्चीयत इति हेतुहेतुमद्भावेन वाक्यार्थो दुःशृिष्टः स्यात्; अव्यतिरेकात्। किञ्च-हेतुहेतुमतोर्भेदात् तद्व्यतिरेकि-प्रमाणपरिज्ञानव्यतिरेकि अप्रमाणद्वयासत्ताज्ञानं प्रसज्यते । न च पर्युदासात्मकस्य तद्व्यतिरेकिता युक्ता; गत्यन्तराभावात् ॥ ३०६१-६२॥
अप्रमाद्वितयासत्त्वे ज्ञाते स्वातन्त्र्यतोऽथ वा।
परिशिष्टः प्रमात्मेति भवतो निश्चयः कुतः॥३०६३॥ इत्यादिनाभ्युपगम्य प्रमाद्वयासत्तासिद्धिं परमतेनैव परत:प्रामाण्यं प्रतिपादयति
अन्यथानुपपत्त्या चेन्नन्वर्थापत्तितो भवेत्।
अनुमातोऽन्यतो वापि स्यादेवं निश्चयोऽन्यतः॥३०६४॥ संशयविपर्यासाभ्यामन्यस्य ज्ञानस्य स्वतःप्रामाण्यं मुक्त्वा गत्यन्तरासम्भवात् ॥ ३०६१-३०६४॥
"तस्माद् गुणेभ्यः" (तत्व०,३०५६) इत्यादिनोक्तस्य न्यायस्या कान्तिकत्वं प्रतिपादयन्नाह
अस्मादेव च ते न्यायादप्रामाण्यमपि स्वतः।
प्रसक्तं शक्यते वक्तुं यस्मात् तत्राप्यदः स्फुटम्॥३०६५॥ अद इति एतत्। किं तच्छक्यते वक्तुम् ? इत्याह
तस्माद् दोषेभ्यो गुणानामभावस्तदभावतः। प्रमाणरूपनास्तित्वं तेनोत्सर्गोऽनपोदितः ॥३०६६॥ यस्मादुत्सर्गभावोऽयं विवक्षामात्रनिर्मितः। शक्योऽभिधातुं विस्पष्टमप्रमाणेऽपि मानवत्॥३०६७॥ यतो बाधात्मकत्वेन बुद्धेः प्राप्ता प्रमाणता। यथार्थज्ञानहेतूत्थगुणज्ञानादपोद्यते ॥३०६८॥ गुणैश्चाज्ञायमानत्वान्नाप्रामाण्यमपोद्यते ।
अनपोदितसिद्धं च स्वतस्तदपि संस्थितम्॥३०६९॥ मानवदिति सप्तम्यन्ताद्वतिः। तदपति अप्रामाण्यम्। शेषं सुबोधम्॥३०६५-३०६९ ॥ "दोषाः सन्ति न सन्ति" (तत्त्व ३०४४) इत्यादावाह
दोषा सन्ति न सन्तीति पौरुषेयेषु शङ्कयते।
कर्तुर्वेदेऽपि सिद्धत्वाद् दोषाशङ्का न नास्ति नः॥३०७०॥ |G.801| श्रुतिपरीक्षायां वेदस्य कर्तुः प्रसाधित्वाद् कर्तुरभावादित्यसिद्धम्, तेन प्रेक्षावतामस्माकं वेदे दोषाशङ्का न नास्ति, अपि त्वस्त्येव ॥ ३०७० ॥ ११. सत्त्वादत्सगों - जै०। २. पा०. गा० पुस्तकयो स्ति। २. तस्मादेव-पा०, गा० ।