________________
स्वतःप्रामाण्यपरीक्षा
६७७
अथ ते सत्तामात्रेणोपकारकाः, तदा विमतिर्न स्यादित्येवमादिर्दोषगणः सर्वत्र प्रसज्यते ॥ ३०५६-३०५७॥
___ अपि च-"तस्माद् गुणेभ्यो दोषाणामभावः" इत्यादिना यत् प्रामाण्यं निश्चयाङ्गत्वेनाक्तम्-अप्रमाणद्वयासत्त्वं दोषाभावश्चेत्येतद् द्वयम्, तत्किं प्रसज्यप्रतिषेधमात्रमिष्टम्? आहोस्वित् पर्युदासात्मकम्?- इति कल्पनाद्वयम्। प्रथमपक्षे दोषमाह
दोषाभावे प्रमासत्त्वमितीदं च निषेधनम्। केवलं यदि कल्प्येत तत्सिद्धि व सम्भवेत्॥३०५८॥ अभावानुपलम्भेन' तत्सिद्धिर्नावकल्प्यते।
अनवस्थितिदोषाच्च न युक्तानुपलम्भतः॥३०५९॥ यदि प्रसज्यप्रतिषेधमात्रमिष्टम्, तदा तस्य सिद्धि व सम्भवेत्। तथा हि-तस्य [G.799] स्वतो वा सिद्धिर्भवेत्, परतो वा; स्वतोऽपि सिद्धिर्भवन्ती स्वयं प्रकाशात्मतया वा भवेत्, निश्चयजननाद् वा; परतोऽपि कदाचिदुपलम्भाद् वा भवेद्, अनुपलम्भाद्वा-इति पक्षाः । न तावत् स्वत:प्रकाशात्मतया सिद्धिर्युक्ता; तस्यावस्तुत्वात् प्रकाशात्मतायाश्च वस्तुधर्मत्वात्। ज्ञानमेव हि प्रकाशात्मतया स्वसंवित्त्या सिध्यति, न तु वस्तुस्वभावनिषेधमात्रलक्षणोऽभावः । नापि निश्चयजननात् स्वतस्तस्य सिद्धिः; सर्वसामर्थ्यविरहलक्षणत्वादभावस्य जनकत्वानुपपत्तेः । जनकत्वे वा वस्तुरूपत्वाप्रसङ्गात्। तस्यानाधेयातिशयत्वेन सहकारिनिरपेक्षत्वात् तन्मात्रभाविनः कार्यस्याविरामप्रसङ्गाच्च। ____ परतोऽप्युपलम्भात् तस्य सिद्धि वकल्पते, कुतः? अभावात्-अभावात्मकत्वात्, उपलम्भस्य भावविषयत्वात्। नाप्यनुपलम्भंतस्तस्य सिद्धिः; अनवस्थाप्रसङ्गात् । तथा हिअनुपलम्भोऽप्यभावात्मकत्वात् कथं सिद्ध इति तत्रापीयम्-स्वतः, परत इति चिन्ताऽवतरत्येव। न तावत् स्वतः; यथोक्तदोषप्रसङ्गात्। नापि परतः; अनवस्थादोषात् ॥ ३०५८३०५९॥ तामेवानवस्थां दर्शयति- . .
दोषाप्रमाद्वयासत्ता गम्यतेऽनुपलम्भतः।
उपलम्भस्य नास्तित्वमन्येनेत्यनवस्थितिः॥३०६०॥ दोषाश्च अप्रमाद्वयं च, तयोरसत्तेति समासः ॥ ३०६० ॥ द्वितीयेऽपि पर्युदासात्मके दोषमाह
पर्युदासात्मकं तच्चेत् तद्विविक्तान्यदर्शनात्। दोषाभावापरिज्ञानं गुणज्ञानात्मकं भवेत्॥३०६१॥ विवक्षितप्रमाज्ञानस्वरूपं च प्रसज्यते।
अप्रमाणद्वयासत्त्वज्ञानं तद्व्यतिरेकि च॥३०६२॥ दोषाभावो हि पर्युदासवृत्त्या गुणात्मक एव भवेत्, ततश्च तत्परिज्ञानमपि गुणज्ञानात्मकं प्राप्नोति, तच्च नेष्टम्; "तदा न व्याप्रियन्ते तु ज्ञायमानतया गुणाः" (तत्त्व ३०४३) इति १. ०दुपलम्भेन-इत्यपि पाठः। २. ०लक्षणेऽभाव०-०।
३. च-पा०, गा०॥