________________
तत्त्वसंग्रहे
दोषाभावाप्रमाभावगुण भावेषु त्रिष्वपि । अवश्याभ्युपगन्तव्या प्रतीतिर्निय मादतः ॥ ३०५०॥
दोषाभावे, अप्रमाणद्वयाभावे, गुणेषु चावश्यं प्रतीतिः - निश्चयाख्या अभ्युपगन्तव्या; अन्यथा प्रामाण्यनिश्चयायोगादिति प्रतिपादितत्वात् ॥ ३०५० ॥ यदि नामाभ्युपगता, ततः किम् ? इत्याह
साप्रमाणं प्रमाणं वेत्येषाप्येवं विकल्प्यते ।
६७६
यथार्थनिश्चयायाङ्गमप्रमाणं कथं भवेत् ! ॥ ३०५१॥ प्रामाण्ये परतः प्राप्ते तत्प्रामाण्यविनिश्चयः ।
सैषा त्रिष्वपि तथोक्तेषु प्रतीतिः प्रामाण्याङ्गत्वेनेष्टा - किमप्रमाणम्, आहोस्वित् प्रमाणमिति कल्पनाद्वयम् । यद्यादयः कल्पः, तदा प्रामाण्यनिश्चयाङ्गं न प्राप्नोति; स्वयमप्रमाणत्वात्। न ह्यप्रमाणत्वेन गृहीतः साक्षी व्यवहारे निश्चयाङ्गं भवति ॥ ३०५१॥
अथ द्वितीयः पक्षः, तदा परतस्तस्य विवक्षितस्य ज्ञानस्य प्रामाण्यप्रसङ्गः, अनवस्थादोषश्च। [G.798] तामेवानवस्थां प्रतिपिपादयिषुः सन् पृच्छति - .
कथं वा गम्यते तस्याः प्रतीतेः सा प्रमात्मता ॥ ३०५२ ॥ बाधकप्रत्ययाभावादिति चेत् सोऽपि किं प्रमा। न वेति दोषः संर्वोऽपि पुनरत्रानुवर्त्तते ॥ ३०५३॥ सोऽपीति बाधकप्रत्ययाभावः ॥ ३०५२-३०५३ ॥ कथमसौ दोषोऽत्राप्यनुवर्त्तते ? इत्याह
प्रामाण्ये परतः प्राप्ता प्रस्तुतस्य प्रमाणता । यथार्थज्ञानहेतुत्वमप्रमाणस्य वा कुतः ॥ ३०५४॥ सुबोधम् ॥ ३०५४ ॥
अस्यापि गम्यते केन प्रामाण्यमिति चिन्त्यते । बाधकप्रत्ययासत्त्वादित्यनिष्ठा
प्रसज्यते॥ ३०५५॥
अस्यापीति बाधक प्रत्ययाभावस्य || ३०५५ ॥
T
किञ्च - " तस्माद् गुणेभ्यो दोषाणामभावः " इत्यादिना प्रदर्शितेन न्यायेन यदि सर्वत्र प्रामाण्यं निश्चीयते, तदा पूर्वमेव प्रमाणं परतोऽभ्युपगतं स्यात्, अनवस्था च । तद्दर्शयतितस्माद् गुणेभ्यो दोषाणामभावस्तदभावतः । अप्रमाणद्वयासत्त्वं तेनोत्सर्गेऽनपोदितः ॥ ३०५६ ॥
(श्रो० वा०, चो० सू० ६५ )
सर्वत्रैवं प्रमाणत्वं निश्चितं चेदिहाप्यसौ ।
पूर्वोदितो दोषगणः प्रसक्ता चानवस्थितिः ॥ ३०५७॥ पूर्वोदित इति । गुणादीनां परसन्तानवर्त्तिनामर्वाग्दर्शनस्यातीन्द्रियत्वात् तदनिश्चये दोषाभावस्याप्यनिश्चयादप्रमारद्वयासत्त्वमप्यनिश्चितमिति न गुणादिभ्यः प्रामाण्यं सिध्येत् ।
९ वेयेषामेव पा... गा।