________________
६७५
स्वतःप्रामाण्यपरीक्षा यद्येवम्, संशयो न स्याद् विपर्यस्ता मतिस्तथा। दोषाः सम्यस्य नो वेति सन्त्येवेत्याप्तसम्मते॥३०४४॥ तत्सन्देहविपर्यासौ भवतश्चात्र कस्यचित्।
यावद् गुणगणाधार इत्यसौ नावगम्यते॥३०४५॥ यदि सत्तामात्रेण गुणा दोषाभावनिश्चयाय व्याप्रियेरन्, तदाऽऽप्तसम्मते पुंसि न कस्यचिद् दोषाभावं प्रति संशयविपर्यासौ प्राप्नुतः; निश्चयेन तयोर्बाधित त्वात्। न चैवं भवति। तत् तस्माद् यावद् गुणवत्तानिश्चयो न जायते, तावद् दोषाभावविषयौ संशयविपर्यासौ भवत एवेति न सत्तामात्रेण व्याप्रियन्ते गुणाः ॥ ३०४४-३०४५॥ .
दोषाभावेऽप्यथाज्ञाने स्वत:प्रामाण्यनिश्चयः।
तथापि विमतिर्न स्यात् पूर्ववत् तत्र वक्तरि॥३०४६ ॥ अथापि स्यात्-मा भूद् गुणानां व्यापारो दोषाभावनिश्चयाय, तथाप्यनिश्चितादेव दोषाभावात् प्रामाण्यनिश्चयो भविष्यतीति? एतदष्ययुक्तम्; पूर्ववत् तत्राप्तसम्मते वक्तरि विमत्यभावप्रसङ्गात् । न हि तद्वाक्यस्य स्वतःप्रामाण्यनिश्चये सति तस्मिन् वक्तरि किमयं सत्यवादी, न वा, नैव वेति मतिर्युक्ता। विमतिशब्देनात्र संशयविपर्यासौ विवक्षितौ। विपरीताकारा मतिर्विमतिरिति कृत्वा संशयस्योभयांशावलम्बित्वेन विपरीताकारसम्भवात् ॥ ३०४६ ।। यच्चापरमिदमुक्तं कुमारिलेन
"तस्माद् गुणेभ्यो दोषाणामभावस्तदभावतः। अप्रमाणद्वयासत्त्वं. तेनोत्सर्गोऽनपोदितः ॥"
• (श्री० वा०, चो० सू० ६५) इत्यादि, . तदपि दोषाभावनिश्चये सत्ययुक्तमेवेति दर्शयति
. दोषाभावस्य चाज्ञानादप्रमाद्वयनास्तिता।
. कथं प्रतीयते येन भवेत् प्रामाण्यनिश्चयः॥३०४७॥ ... . अथाप्रमाद्वयासत्ताऽप्रतीतावपि गम्यते।
प्रामाण्यं स्वत एवैवं विमतिः स्यान्न पूर्ववत्॥३०४८॥ [G.797] यदि.हि संशयविपर्यासाभ्यामपवादभूताभ्यां रहितं ज्ञानं सिध्येत्, तदा तत्प्रमाणं भवेत्; अन्यथाऽपवादसमाक्रान्ते विषये कथमुत्सर्गो निविशेत! तयोश्च संशयविपर्यासयोर्दोषहेतुकत्वाद् दोषाभावानिश्चये तयोरभावनिश्चयो न युज्यते। अप्रमाद्वयनास्तितेत। संशयविपर्ययनास्तिता ॥ ३०४७-४८॥
तामेव विमतिं दर्शयति. किमस्य वचनं मानं किं वाऽमानमथाप्यदः।
__ अमानमेव सर्वेषां स्वतःप्रामाण्यनिश्चयात्॥३०४९॥ एवं दोषाभावादीनां सत्तामात्रेण प्रामाण्यनिश्चयं प्रत्यङ्गभावो न युक्त इति प्रतिपादितम्। इदानीं तेषु निश्चयापेक्षणे परतः प्रामाण्यम्, अनवस्था च प्रसज्यते-इत्येतद् द्वयं विस्तरेण प्रतिपादयन्नाह