________________
६७४
तत्त्वसंग्रहे
शक्यत्वात्। एतदेवाह-दोषाभावो ह्यलक्षणमिति। लक्ष्यतेऽनेनेति लक्षणम्, न लक्षणमलक्षणम्, उपलक्षणं न भवतीत्यर्थः; अपरिज्ञातत्वादिति भावः ॥ ३०३७-३०३८ ॥ न चापरिज्ञातं लक्षणं भवतीति दर्शयति
न हि दण्डापरिज्ञाने पुंसां दण्डीति लक्ष्यते।
तल्लक्षितं स्वतो मानमित्येतच्च पराहतम्॥३०३९॥ किञ्च-भवतु नाम दोषाभावो लक्षणम्, तथापि दोष एव; स्ववचनव्याघातप्रसङ्गात्। तता हि-यदि दोषाभावेन प्रामाण्यमुपलक्ष्यते, तदा स्पष्टमेव परतःप्रामाण्यमुक्तं स्यात्, ततश्च 'स्वतः प्रामाण्यम्' इत्येतद्वचनं पराहतं स्यात् ॥ ३०३९॥ . . एतदेव स्पष्टयति
दोषाभावः प्रमाभावात् प्रमाणान्निनिश्चितात्मकः।
वाक्यस्य लक्षणं युक्तं परतोऽतः प्रमास्थितिः॥३०४०॥ दोषाभावो यद्यभावाख्येन प्रामाण्येन निश्चितो भवेत्, तदाऽसौ लक्षणं भवेत्; अनिश्चि तस्य लक्षणत्वायोगात्, अन्यस्य चाभावनिश्चायकस्य प्रमाणस्याभावात्। ततश्च परतोऽभावाख्यात् प्रामाण्यं स्फुटतरमेवोक्तं स्यात् ।। ३०३९-३०४० ॥ यदुक्तम्- "नृदोषविषयं ज्ञानं तेषु सत्सु न जायते" (तत्त्व० २८९२) इति, तत्राह
नृदोषविषयं ज्ञानं तेषु सत्सूपजायते।
न नाम दोषाभावे तु गुणाज्ञाने कथं मतिः॥३०४१॥ यदि नाम गुणेषु सत्सु दोषविषयं ज्ञानं नोत्पद्यते, गुणानां परसन्तानवर्त्तिनामतीन्द्रियत्वात् तदपरिज्ञाने सति दोषाभावनिश्चयो न प्राप्नोति; गुणभावात्मकत्वाद् दोषाभावस्य। न हि घटविविक्तप्रदेशापरिज्ञाने घटाभावो ज्ञातुं शक्यते ॥ ३०४१ ॥ एतदेव दर्शयति
द्वेषमोहादयो दोषाः कृपाप्रज्ञादिबाधिताः।
दयाद्यनिश्चये तेषामसत्त्वं हि कथं गतम्॥३०४२॥ [G.796] तेषामिति दोषाणाम् ॥ ३०४२ ॥
अत्र कुमारिलेनोक्तम्__ "तदा न व्याप्रियन्ते तु ज्ञायमानतया गुणाः।
दोषाभावे तु विज्ञेये सत्तामात्रोपकारिणः ॥' (ो० वा०, चो० सू० ६७) इत्येतत् तदेत्यादिनाशङ्कते
तदा न व्याप्रियन्ते तु ज्ञायमानतया गुणाः। दोषाभावे तु विज्ञेये सत्तामात्रोपकारिणः ?॥३०४३॥
(श्रो० वा०, चो० सू० ६७) उपकारिण इति दोषाभावनिश्चयं प्रत्युपकारिणः ।। ३०४३ ।। यद्येवमित्यादिना प्रतिविधत्ते
१-१. ०ऽवज्ञायमान०-जै०।