________________
६७३
स्वतःप्रामाण्यपरीक्षा ज्ञातुमाप्तप्रणीते स्याद् यतो वाक्येऽवधारणम्॥ ३०३१॥ योऽप्यतीन्द्रियदृक् पश्येत् तदीयगुणसम्पदम्। तस्याप्याप्तप्रणीतेन वचसा किं प्रयोजनम् !॥३०३२॥ स हि वाक्यनिराशंसः स्वयमर्थं प्रपद्यते।
अन्योऽप्याप्तापरिज्ञानात् ततोऽर्थं नावगच्छति॥३०३३॥ [G.794] न ह्याप्तमनवधार्य 'तदीयमेतद्वचनम्' इत्येवमवधारयितुं शक्यम्, न चाप्तावधारणं सम्भवति । तथा हि-यस्तावत् क्षीणनिःशेषदोषोऽतीन्द्रियार्थदर्शी स यद्यप्याप्तमवधारयति, तथापि तद्वचनमकिञ्चित्करमेव; स्वयं सर्वार्थप्रत्यक्षदर्शित्वेन तद्वचनादप्रवृत्तेः। अतस्तस्य तदवधारणमनर्थकम्। यश्चान्योऽर्वाग्दर्शी स नैवाप्तावधारणपटुरिति नासौ स्वतस्तद्वचनादर्थमवगच्छति; अनिश्चितत्वात् ॥ ३०३१-३०३३ ॥ "ये विद्यागुरवः" (तत्त्व० २८८६) इत्यादावाह
स्वत:प्रामाण्यवादे च स्वतो निश्चयजातितः।
विनाशसम्भवायोगात् किमर्थं विनिवारणम्॥३०३४॥ निश्चयजातितः निश्चयोत्पत्तेः । अन्यथा यदि स्वतो निश्चयो नोत्पद्यते; तदा स्वतःप्रामाण्यवादो हीयेत ॥ ३०३४॥ "अतो गुणनिषिद्धैर्वा" (तत्त्व० २८८७) इत्यादावाह
न नाम दूष्यते वाक्यं दोषैर्गुणनिराकृतैः। . .गुणानिश्चयतस्तत् तु विनिश्चेतुं न शक्यते॥३०३५॥
यदि नाम दोषैर्न दृष्यते गुणवद्वाक्यम्, गुणैर्दोषाणां निराकृतत्वात्; तथापि परसन्तानवर्त्तिनां गुणानामतीन्द्रियत्वात् तदनिश्चये गुणवंद्वाक्यं निश्चेतुं न शक्यते। न चाविनिश्चितं' स्वत:प्रमाणं भवितुमर्हति ॥ ३०३५ ॥ "यद्वा कर्तुरभावेन न स्युर्दोषाः" (तत्त्व० २८८७) इति, अत्राह.
वाक्यस्याकर्तृकत्वं च प्रागेव विनिवारितम्।
नातः कर्तुरभावे ते' न स्युर्दोषा निराश्रयाः॥३०३६ ।। प्रागेवेति श्रुतिपरीक्षायाम् ॥ ३०३६॥
"तंत्राप्तोक्तेयं दृष्टम्" (तत्त्व० २८८८) इत्यादावाहगुणेभ्यश्च प्रमाणत्वं यथा युक्तं तथोदितम्। गुणानां चापरिज्ञाने दोषाभावो न लक्ष्यते॥३०३७॥ स्वतो वाक्यं प्रमाणं तद् दोषाभावोपलक्षितम्।
न युक्तमपरिज्ञानाद् दोषाभावो ह्यलक्षणम्॥३०३८॥ [G.795। तथोदितमिति । "तत्रापि सुधियः प्राहुः" (तत्त्व० २९८७) इत्यादिना।
यच्चोक्तम्-"स्वतो वाक्यं प्रमाणं च दोषाभावोपक्षितम्' (तत्त्व० २८८९) इति, तदप्ययुक्तम्; गुणानामतीन्द्रियत्वात् तदपरिज्ञाने दोषाभावस्य गुणभावात्मकस्य लक्षयितुम१. चापि निश्चितं-पा०: चाविनिश्चितं-गा।
.२. न-गा।