________________
६७२
तत्त्वसंग्रहे चलात्मनो यदृणादिव्यवहारस्योदाहरणम्, तत् केवलं भवतः प्रकृताभिज्ञता प्रकटयति ॥ ३०२३- ३०२५ ॥ "त्रिसत्यताऽपि देवानाम्" (तत्त्व० २८८३) इत्यादावाह
त्रिसत्यताऽपि देवानां नैव निश्चितिकारणम्।
आद्यानिश्चित्य सद्भावे नैव स्यात् परतोऽप्यसौ॥३०२६॥ [G.793] आद्यदिति। प्रथमाद्वचनानिश्चितेरसद्भावे सति परत: उत्तरकालभाविनो वचनद्वयात् असौ निश्चितिर्नैव स्याद्; विशेषाभावात् ॥ ३०२६ ॥ एतदेव दर्शयति
तदीयमेव येनेदं वचनद्वयमुत्तरम्।
तदाद्ये प्रत्ययाभावे को विशेषस्तदन्ययोः॥३०२७॥ उत्तरमिति पश्चात्कालभावि। प्रत्ययाभाव इति निश्चयाभावे। तदन्ययोरिति । तस्मादन्ययोः, उत्तरकालभाविनोरित्यर्थः । यो ह्येकं वचनं द्वितीयं च मिथ्या वदेत् सं तृतीयमपि किं न वदेत्, कस्तदानीं तस्य प्रतिरोद्धा, येन तृतीयात् सम्प्रत्ययो जायते ! ।। ३०२७॥ "तेन स्वत:प्रमाणत्वे" (तत्त्व २८८४) इत्यादावाह
अतः पूर्वोक्तया युक्त्या त्वत्पक्षेऽप्यनवस्थितः। ..
प्रमाणत्वाप्रमाणंत्वे यथायोगमतः' स्थिते॥३०२८॥ पूर्वोक्ता युक्ति:
"तथा हि बाधकाभावात् प्रमाणं भवतोच्यते।
बाधाभावोऽप्यभावाख्यं प्रमाणान्तरमिष्यते"। (तत्त्व० ३००३) इत्यादिनोक्ता ॥ ३०२८॥ "नित्यमाप्तप्रणीतं च" (तत्त्व० २८८५) इत्यादावाह
वाक्यं नित्यं पुराऽस्माभिर्विस्तरेण निराकृतम्। क्षीणनिःशेषदोषश्च नाप्तोऽस्ति भवतां 'मते ॥३०२९॥ अक्षीणावृतिराशिस्तु कीदृगाप्तो भविष्यति।
तस्य सम्भाव्यते दोषादन्यथापि वचो यतः॥३०३०॥ "पूर्वं श्रुतिपरीक्षायाम् नित्यं वाक्यं विस्तरेण निरस्तमित्यसिद्धत्वात् कुतस्तस्य स्वत:प्रामाण्यचिन्तावतारो भवेत् ! आप्तस्य स्वयमनभ्युपगमात् प्रणीतमपि वाक्यमसिद्धमेव। तथा हि-यस्यान्तहेतवो रागादयो दोषाः नि:शेष प्रहीणाः, स एवाप्तो युक्तः; अन्यथा रागादिभिर्दोषैरनृतहेतुभिः परीतचेतसः कथमाप्तत्वं सेत्स्यति! न च भवद्भिः प्रहीणाशेषक्लेशजाल: कश्चिन्नरोऽभ्युपगम्यते, येनाप्तवचनं प्रमाणं भवेद् भवताम् ॥ ३०२९-३०३० ॥ किञ्च-भवतु नामाप्तः, तथापि तस्य वचनमसिद्धमेवेति दर्शयति
जातोऽप्याप्ते तदीयोऽसौ गुणौघ: केन शक्यते। १. ०मतो-जै०। २. पुरोऽस्माभि०-जै
३.३. भवतः स्मृतौ-पा०, गाल। ४. पुरा-पा०, गा०1
५. जातेऽ०-पा०, गा० ।