________________
स्वतःप्रामाण्यपरीक्षा
६७१ निःसंशयां हि धीस्तस्य शुद्धिसंवाददर्शने॥३०१९ ॥ अत्रापि यः पुनः शङ्का कश्चित् प्रकुरुते जडः।
संशयात्मकताऽजेन' मन्ये तं प्रति निन्दिता॥३०२०॥ प्रतिपादितमेतद्यथा कारणशुद्धिसंवादज्ञानाभ्यां शङ्का निवर्त्तते । यत् पुनरुक्तम् “तथा च वासुदेवेन" (तत्त्व० २८७२) इत्यादि, तत् केवलमात्मनो भक्तिवादावलम्बनं प्रकटितम्, न वस्तुस्थितिः । न हि वचनमात्रान्नियुक्तिकात् परस्य प्रेक्षावतो व्युत्थितचेतसस्तत्स्वभावनिर्णयो ज्ञायते। तथा हि-वासुदेववचनमन्येनाभिसम्बन्धिना व्यवस्थित्वादविरोधीति दर्शयन्नाह-अत्रापीत्यादि । अत्र-शुद्धिसंवाददर्शने, यो भवद्विधः शङ्कां कुरुते-"संवादेनापि संवादः पुनर्मुग्यस्तथैव हि" (तत्त्व० २८५३) इत्येवम्, तं प्रति, अजेन=विष्णुना, संशयितात्मता निन्दितेति सम्भाव्यते ॥ ३०१८-३०२० ।। [G.792] " यावानेवापवादोऽतो यत्र सम्भाव्यते मतौ" (तत्त्व० २८७३) इत्यादावाह
देशकालनरावस्थाभेदापेक्षाप्रकल्पिते । प्रामाण्यनिश्चयेऽन्यस्माद् व्यक्तं प्रामाण्यनिश्चितिः॥३०२१॥ तथा हि देशकालादौ बाधाभावात् सुनिश्चितौ।।
प्रमाणान्तरतः प्राच्ये ज्ञाने प्रामाण्यनिश्चयः॥३०२२॥ अनेन स्ववचनविरोधं प्रतिपादयति । तथा हि-देशकालनरावस्थापेक्षया प्रामाण्यनिश्चये प्रकल्प्यमाने परत एवेति स्पष्टमुक्तं भवति; यतो देशकालादौ प्रमाणान्तरतो बाधाय अभावे निश्चिते सति प्राच्ये=प्रथमे ज्ञाने प्रामाण्यनिश्चयोऽभ्युपगम्यमानः कथं परतो नाभ्युपगतः स्यात् । अवश्यं हि प्रमाणान्तरतो बाधाया अभावो निश्चयः । तथा हि-स्वतः प्रामाण्येऽभ्युपगम्यमाने सर्वज्ञानानां प्रामाण्यप्रसङ्गो मा भूदित्यवश्यं त्वया वक्तव्यम्-यत्र बाधा नास्ति तस्यैव स्वत:प्रमाण्यं नान्यस्येति । स च बाधाया अभावोऽनुपलम्भमात्रान्न शक्यते निश्चेतुम्; व्यभिचारादिति सामर्थ्यानुपलब्धिलक्षणप्राप्तानुपलम्भतो निश्चयः; तस्यैव बाधाभावेन व्याप्तत्वात् । स चोपलब्धिलक्षणप्राप्तानुपम्भः संवादविज्ञानतो नान्यो युक्त इति प्रमाणान्तरत एव प्रामाण्यनिश्चयोऽभ्युपगतः स्यात् ।। ३०२१-३०२२॥ "ऋणादिव्यवहारे०'' (तत्त्व० २८८१) इत्यादावाह
ऋणादिव्यवहारस्तु यो वाक्यत्रययोग्यवान्। स तादृशस्थलात्मैव नोदाहार्यः प्रमास्थितौ ॥३०२३॥ अर्थिप्रत्यर्थिनौ तत्र स्मृत्वा स्मृत्वा परिस्फुटम्। न हि सूक्ष्मेक्षिकां कर्तुं लभेते तत्र वस्तुनि ॥ ३०२४॥ वस्तुस्थित्या प्रमाणं तु व्यवस्थाप्यं छलान्ननु ।
प्रकृताप्रतिरूपोऽतो व्यवहार उदाहृतः॥३०२५॥ वस्तुस्वभावप्रतिबद्धायां प्रमास्थितौ प्रकृतायां इच्छामात्रविरचितसङ्केतप्रतिबद्धस्य १. ये-पा०। २. संशयात्मकता- पा०, गा० ।
३. पाने- पा० गा। ४. निश्चय:-पा०।
५. त्रत्-जै०।