________________
६७०
तत्त्वसंग्रहे
बाधाभावाविनाभूतं यस्मानानुपलम्भनम्॥३०१२॥ एवं सति त्रये कस्मात् परितोषस्त्वया कृतः। अदृष्टावपि शङ्कयेत बाधा पूर्ववदत्र हि॥३०१३॥ यावन्न कार्यसंवादस्तावन्न विनिवर्तते । बाधाशंका यतस्तस्मिन् नियमस्त्रितयेऽफलः ॥ ३०१४॥ ततश्चाजातबाधेनाप्याशङ्कयं बाधकं पुनः। छलेन वस्तुनस्तत्त्वं नहि जात्ववतिष्ठते॥३०१५ ॥ आजीवितात् समुत्पन्नं बाधप्रत्ययवर्जितम्। ..
शङ्क्ते पीतनिभं ज्ञानं प्रमाणं न हि जायते॥३०१६॥ यदि स्वतः एव प्रामाण्यनिश्चयः, तदा निश्चयेन प्रामाण्यस्य व्याप्तत्वाद्, यत्रानिश्चयस्तत्र सामर्थ्यादप्रामाण्यस्यावस्थानाद् बाधकसद्भावो यत्नमन्तरेणैव निश्चित इति तद्भावसिद्ध्यर्थो व्यर्थो: यत्नः । तत्र चैकस्यापि परीक्षकज्ञानस्यापेक्षावकाशो नैव सम्भवतीति किं पुनस्त्रयाणामिति, अत इदमप्यसङ्गतमुक्तम्।।
एवं च परीक्षकज्ञानत्रितयं नातिवर्त्तत इति दर्शयति-अत इत्यादि । स्यादेतत् अनुपलम्भमात्रेण बाधकाभावो न शक्यतेनिश्चेतुम्, सतोऽपि कस्यचिद् दूरसूक्ष्मव्यवहितस्यानुपलब्धेर्बाधकाभावेनानुपलम्भस्याव्याप्तत्वात्, तेन बाधकाभावसिद्धये यत्नो विधीयत इति? यद्येवम्, परीक्षकज्ञानत्रयनियमं जहीहि, प्रथमज्ञान-वदन्यत्रापि बाधकस्याशयमानत्वात्, [G.791] यावद्विफलज्ञानं नोदेति तावद् बाधाशङ्का केन निवर्त्तताम्, येन त्रयनियमः स्यात्, न ह्याक्रोशमात्रेणैव विना प्रमाणं प्रेक्षावतामा-शङ्कानिवृत्तिर्युक्ता! तथा हि-वस्तुस्थित्या प्रमाणचिन्ता, नायं छलव्यवहारः प्रस्तुतो येन क़तिपयप्रत्ययमात्रं निरूप्यते । यदि पुनर्ज्ञानत्रयोदयावधिमात्रेण प्रामाण्यमवतिष्ठते, हन्त तर्हि येषामाजीवितं कामलोपहतचक्षुषां पीतशङ्खाकारमेव ज्ञानमुपजायते तेषां तद्विज्ञानं प्रमाणं स्यात् !॥ ३००९-३०१६॥
स्यादेतद्-यद्यप्रमाणम्, तस्य किमिति ज्ञानत्रयपरीक्षाया ऊर्ध्वं बाधकं नोपजायते, अनुत्पत्तेर्नास्तीत्यवसीयते? इत्याशङ्कयाह
विशुद्धिकारणाभावानोपजायेत बाधकम्। ___ अन्येन वा निमित्तेन नातः शङ्का निवर्त्तते॥३०१७॥ विशुद्धेः कारणं द्रोणकुसुमरसनिषेकादि, तस्याभावान्नोपजायते बाधकम्। अन्येन वा निमित्तेनेति। यथा मरुमरीचिकानिचये सदुपजातसलिलविभ्रमस्य पुंसोऽनुपसर्पणात् सलिलस्वभावविविक्तमरुस्थलीनिर्भासि ज्ञानं नोपजायते ॥ ३०१७॥ "उत्प्रेक्षेत हि यो मोहाद्" (तत्त्व० २८७१) इत्यादावाह- .
सनिमित्तैव तेनेयमाशंका न तु मोहतः। शुद्धिसंवाददृष्टौ तु नाशंका सुधियो भवेत्॥३०१८ ॥
स सर्वव्यवहारेषु संशयात्मा न जायते। १. इदं-पा०, गा०। २. यावद्धि फल०-गा।
३-३. यत्र-पा०, गा०।