________________
स्वतःप्रामाण्यपरीक्षा
६६९ कथमप्रतिष्ठितम्? इत्याह
तथा हि बाधकाभावात् प्रामाण्यं भवतोच्यते। बाधाभावोऽप्यभावाख्यं प्रमाणान्तरमिष्यते ॥३००३॥ तस्यापि बाधकाभावात् प्रामाण्यमभिधीयते।
तत्र तत्रैवमिच्छायां व्यवस्था नोपलभ्यते॥३००४॥ यदुक्तम्-"बाधकप्रत्ययस्तावत्" (तत्त्व० २८६५) इत्यादि, तत्राह
अनपेक्षप्रमाणत्वं बाधकप्रत्यये यतः।
न सिद्धं तेन नैवायं पूर्वज्ञानमपोहते ॥३००५॥ अभावाख्यस्य प्रमाणस्यापेक्षत्वादनपेक्षप्रमाणत्वमस्यासिद्धम् ॥ ३००५ ॥ अथापीत्यादिना अनवस्थामेव समर्थयते
अथापि बाधकाभावाद् विना प्रामाण्यमिष्यते।
क्वचिदाद्ये तथाभावे प्रद्वेषः किन्निमित्तकः! ॥३००६॥ यद्यनवस्थाभयात् क्वचिद्विनैव बाधकाभावं प्रामाण्यमिष्यते, तदा प्रथमेऽपि ज्ञाने बाधकाभावो नापेक्षणीय: स्यात्। ततश्च सर्वज्ञानानां प्रामाण्यप्रसङ्गः॥ ३००६॥ यदुक्तम्-"तत्रापि त्वपवादस्य स्यादपेक्षा" (तत्त्व० २८६६) इत्यादि, तत्राह
बाधकः प्रत्ययश्चायं पूर्वज्ञानमपोहते। .. अनपेक्षप्रमाणत्वाद् यदि शङ्काऽत्र किं भवेत्॥३००७॥
अनपेक्ष्यप्रमाणत्वं शङ्कयते चात्र बाधकम्। _ विरुद्धमेतदाशङ्का निश्चिते न हि जायते ॥३००८॥
यदि बाधकः प्रत्ययोऽनपेक्ष्यप्रमाणभावः, तत्कथं तत्रापवादाशङ्का, येनोच्यते तत्रापि । त्वपवादस्य स्यादपेक्षा' इति, ततश्च परस्परव्याहतमेतदुक्तम्-अनपेक्षप्रमाणत्वम्, तत्र चाशङ्कयते-बाधकमिति।तथा हि-'अनपेक्षम्' इत्यनेन निश्चयेन विषयीकृतमुच्यते,[G.790] यत्र च निश्चयस्तत्राशङ्काया असम्भवः; निश्चयारोपमनसोर्बाध्यबाधकभावात्। आशङ्कायाश्चोभयांशावलम्बित्वेनारोपाकारप्रवृत्तत्वात् ॥ ३००७-३००८॥ "अथानुरूपयलेन" (तत्त्व० २८६८) इत्यादावाहः
स्वत:प्रमाण्यपक्षेऽपि स्वरसेनैव निश्चयात्। कस्माद् बाधकसद्भावसिद्धौ यत्नो विधीयते॥३००९॥ तथा हि स्वरसेनैव न यस्मिन् माननिश्चयः। निश्चीयतेऽयत्नेन सामर्थ्यात् 'तत्र बाधकः॥३०१०॥ अतः परीक्षकज्ञानत्रयमत्र किमुच्यते। नैकस्याप्यवकाशोऽस्ति तस्मिन्निश्चयतः स्वतः॥३०११॥
यदि चोत्पद्यते शङ्कानुपलम्भेऽपि संशयात्। १. पेक्षित्वा०-पा०; ०पेक्षितत्वा०-- गा०। २. बाधकाभावं-पा०, गा० । ३. ०ऽत्र यत्नेन-पा०, ०ऽप्ययनेन-गा०।