________________
६६८
तत्त्वसंग्रहे __ अकृतार्थक्रिय इति। अकृता अर्थक्रिया येन स तथोक्तः । अवाच्येति अवचनीया, अनिन्द्येत्यर्थः । प्रामाण्यनिश्चय पूर्वत्वादस्या इति मन्यते ॥ २९९५ ॥ [G.788] "तस्मात् स्वतः प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्" (तत्त्व० २८६१) इत्यादावाह
यदि स्वत:प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्। बाधकारणदुष्टत्वज्ञानाभ्यां तदपोद्यते॥ २९९६॥ बाधकारणदुष्टत्वज्ञानाभावात् प्रमाणता। प्राप्तैवं च परस्मात् ते भवेत् प्रामाण्यनिश्चयः॥ २९९७॥ तथा हि तदभावोऽयमभावाख्यं प्रमान्तरम्। ..
त्वत्पक्षेऽनुपलम्भाख्यमनुमानं तु मन्मते॥२९९८॥ अत्र प्रथमेन श्लोकेन परपक्षानुवादः द्वितीयादिना दूषणम्। यदि हि बाधकादिप्रत्ययेन प्रामाण्यमपोद्यते, एवं सति बाधकादिप्रत्ययाभावात् प्रामाण्यनिश्चयोऽभ्युपगतः स्यात् । ततश्च परत एव प्रामाण्यमुक्तं भवेत्, अभावस्यापि प्रमाणान्तरत्वेनेष्टत्वात् । अस्मत्पक्षे त्वनुपलब्धिसंज्ञकेऽनुमानेऽन्तर्भावान्न प्रमाणान्तरम् ॥ २९९६-२९९८॥
किञ्च-उत्सर्गापवादयो:कल्पितयो:' शब्दार्थविषयत्वेनानवस्थितत्वाद् वस्तुचिन्तायामनधिकार एव; सर्ववस्तूनां स्वस्वभावव्यवस्थितत्वेन स्वभावान्तरानुगमाभावात्, केवलं तदुपन्यासो भवत उत्सर्गापवादविषयानभिज्ञतामेव प्रकटयति । तथा हि-त्वदुपवर्णितयैवोपपत्या विपरीतोऽप्युत्सर्गापवादः शक्यते कल्पयितुमिति दर्शयति
अनयैवोपपत्त्या स्यादप्रामाण्यमपि स्वतः। तत्रापि शक्यते वक्तुं यस्मान्यायोऽयमीदृशः ॥ २९९९॥ तस्मात् स्वतोऽप्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम्।
बाधकारणदुष्टत्वज्ञानाभावादपोद्यते ॥३०००॥ यदप्युक्तं कुमारिलेन
"तस्माद् बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता।
अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥' (श्लो० वा०, चो० सू० ५३) इति, अनयापि हि दिशा शक्यमपि स्वतो वक्तुमिति दर्शयन्नाह
तथा बोधात्मकत्वेन बुद्धेः प्राप्ताऽप्रमाणता।
यथार्थज्ञानहेतूत्थगुणज्ञानादपोद्यते ॥३००१॥ [G.789) अप्रमाणतेत्यकारप्रश्लेषः । यथार्थज्ञानं च-अर्थसंवादज्ञानम्, हेतूत्थगुणज्ञानं चकारणसमुत्थगुणज्ञानमिति समाहारद्वन्द्वः ।। ३००१ ॥ "परायत्तेऽपि चैतस्मिन्" (तत्त्व० २८६२) इत्यादावाह
अप्रामाण्ये परायत्ते भवत्येवानवस्थितिः। .. प्रमाणाधीनमेतद्धि स्वतस्तच्चाप्रतिष्ठितम्॥३००२॥
एतर्नीति अप्रामाण्यम्। तच्चेति प्रमाणम् ॥ ३००२॥ . १. कल्पितेन-गा। २.पा०, गा० पुस्तकयो स्ति।
३.तस्मिन- पाल