________________
६६७
स्वतःप्रामाण्यपरीक्षा इत्थं कारणसंशुद्धौ प्रतीतायां तदेव या। शातकुम्भमये शङ्के पीताकारमतिर्भवेत्॥२९९१॥ विशुद्धकारणोत्पादात् त्वस्याः प्रामाण्यनिश्चयः।
निष्पादितक्रिये कम्बौ सिताकारमतेरिव ॥२९९२॥ अनेनैतदाह-न ह्यस्माभिः कालान्तरभाविनो विप्रकृष्टविषयस्य ज्ञानस्य कारणपरिशुद्ध्या प्रामाण्यं निश्चीयते, येनासिद्धता हेतोर्भवेत्, प्रतिक्षणमपरापरप्रत्ययोपयोगेन भिन्नशक्तिसम्भवादिति, किं तर्हि ? यदैव सन्निकृष्टविषयस्य ज्ञानस्य [G.787] शुक्लशङ्खग्राहिणः सितसाध्यार्थक्रियाप्राप्त्या कारणशुद्धिनिश्चयः, तदैव या विप्रकृष्टदेशवर्तिनि शातकुम्भमये शङ्ख पीताकारा धीरुपजायते, तस्याः कारणपरिशुद्धितः प्रामाण्यमवसीयते । न च तस्यामेवावस्थायां कारणान्यथात्वं सम्भवति–मा भूत् सन्निकृष्टार्थविषयज्ञानस्यार्थक्रियाविसंवाद इति ॥ २९९०-२९९२ ॥
एतच्च भवद्भिर्मीमांसकैरिष्टमेवेति दर्शयन्नाह- . _ क्षुदाद्यनुपघातादिवचनादिदमुक्तवान् ।
भाष्यकारोऽप्यतो मोहादनवंस्थेह चोद्यते॥२९९३ ॥ अनेन प्रतिज्ञायाः स्ववचनविरोधोऽपि प्रतिपादितः । तथा हि- भाष्यकारेणोक्तम्"यदा क्षुदादिभिरुपहतं मनो भवतीन्द्रियं वा, सौम्यादिभिर्वा बाह्यो विषयः,ततो मिथ्याज्ञानम्, अनुपहतेषु सम्यग्ज्ञानम् । इन्द्रियमनोऽर्थसन्निकर्षो हि ज्ञानस्य हेतुः, असति तस्मिन्नज्ञानम्। तद्गतो हि दोषो मिथ्याज्ञानस्य हेतुः, दुष्टेषु हि ज्ञानं .मिथ्या भवति, दोषापगमे सम्प्रतिपत्तिदर्शनात् । कथं दुष्टादुष्टावगम इति चेत् ? प्रयत्नेनान्विच्छन्तो न चेद्दोषमवगच्छेम, प्रमाणाभावाददुष्टमिति मन्येमहि" (मी० द०, शा० भा० १.१.५) इति विस्तरः । अनेन हि ग्रन्थेन भाष्यकृता कारणशुद्धिज्ञानात् प्रामाण्यनिश्चयः स्पष्टमाख्यातः; अन्यथा 'प्रयत्नेनान्विच्छन्तः३' इत्यनेन किं दर्शितं भवेत्। ततश्च स्वतःप्रामाण्यप्रतिज्ञाव्याघातः ॥ २९९३॥
यदुक्तम्-"संवादगुणविज्ञाने केन वाभ्यधिके मते" (तत्त्व० २८६०) इति । तत्र संवादं प्रति पूर्वमुक्तम्, गुणज्ञानं प्रत्याह
दुष्टकारणजन्यत्वशङ्कया . नाधिगम्यते।
मानताऽऽद्यस्य तच्छुद्धिज्ञानमभ्यधिकं मतम्॥२९९४॥ मानतेति प्रामाण्यम्। आद्यस्येति अर्थज्ञानस्य। तद्धि कारणशुद्धिज्ञानात् प्रथमभावित्वादाद्यम्। तदिति तस्मादर्थे ॥ २९९४॥ .
एवमित्यादिना प्रवृत्तेरदृष्टतां दर्शयति____ एवं चार्थक्रियाज्ञानाद्धेतुशुद्धिविनिश्चितौ।
- अकृतार्थक्रिये वृत्तेरर्थेऽवाच्योपपद्यते ॥ २९९५॥ . १. प्रणीताया-पा०, गा०। २. वा-पा०, गा० ।
३. यत्नेना०-जै०, पा० । ४. ०तस्य-जै०।
६. रदुष्टतां-गा। ७. ०रर्थवाच्यो० पा०: रेषाऽवाच्यो०-गा०।
५. तस्मात्-पा०, गा०।