________________
६६६
तत्त्वसंग्रहे
विदुषां प्रश्नो जायते। यथा च बीजस्य तद्भावोऽङ्करदर्शनादवगमम्यते, तथा प्रमाणस्यापि तद्भावः; अर्थक्रियालक्षणफलदर्शनात् । न च तत्र फलमन्येन प्रमाणेनावगम्यते,यतोऽनवस्था प्रसज्यते; ज्ञानात्मनः फलस्य स्वत एव संवेदनात् सिद्धेः । न च स्वरूपे ज्ञानस्य भ्रान्ति: सम्भवति; तदनिश्चये स्वसंवेदनस्यैवाभावप्रसङ्गादिति यत्किञ्चिदेतत् ॥ २९८५ ॥
इदानीं कारणविशुद्धिद्वारेण प्रामाण्यनिश्चयेऽनवस्थादोषं समुत्पन्नेऽपीत्यादिना शोकेन पूर्वपक्षमुत्क्षिप्य अत्रापीत्यादिना परिहरति
समुत्पन्नेऽपि विज्ञाने न तावदवधार्यते। यावत् कारणशुद्धत्वं न प्रमाणान्तराद् गतम्?॥२९८६॥ अत्रापि सुधियः प्राहु नवस्थेति येन सा.. शुद्धिः संवादिनो ज्ञानादनपेक्षात् प्रतीयते॥ २९८७॥ सन्निकृष्टे हि विषये कार्यसंवाददृष्टितः।.
कारणानां विशुद्धत्वमयलेनैव गम्यते॥२९८८॥ [G.786] द्विविधं हि ज्ञानम्-सन्निकृष्टविषयम्, विप्रकृष्टविषयं च। तत्र यत्तावत् सन्निकृष्टविषयम्, तस्य न कारणगुणावधारणात् प्रामाण्यनिश्चयः, किं तर्हि ? अर्थक्रियासंवादिविज्ञानात्। तथा हि-न तत्र गुणावधारणं सम्भवति यावदर्थक्रियासंवादात् सम्यक्त्वं नावसीयते, , ततश्चावस्थिते सम्यक्त्वे पश्चात्कालभाविकारणगुणावधारणमकिञ्चित्करमेव ।
यत् पुनर्विप्रकृष्टार्थविषयं ज्ञानम्, तस्य कारणगुणनिश्चयात् प्रामाण्यनिश्चय इति दर्शयन्नाह
विप्रकृष्टे हि विषये तदुद्भूता मतिः प्रमा।
तजन्यत्वाद् यथैवेयं सन्निकृष्टार्थगोचरा ॥ २९८९॥ यद्विप्रकृष्टविषयं सौवर्णशङ्खग्राहिज्ञानं तस्य तज्जन्यत्वात् विशुद्धकारणजन्यत्वात्, सन्निकृष्टविषयशुक्लङ्घग्राहिज्ञानवत् प्रामाण्यनिश्चयः । प्रयोगः-यद्विशुद्धकारणजनितं तत् प्रमाणम्, यथा सन्निकृष्टार्थविषयं शुक्लशङ्खग्राहिविज्ञानम्, विशुद्धकारणजनितं चेदं विप्रकृष्टार्थविषयं पीताकारशङ्खाद्यवभासि' विज्ञानमिति स्वभावहेतुः ॥ २९८६-२९८९॥
ननु चासिद्धो हेतुः । तथा हि-कारणशुद्धिर्नार्थसंवादमन्तरेणावधारयितुं शक्यते; अतीन्द्रियत्वादिन्द्रियाणाम् । अर्थसंवादापेक्षायां च तदेव प्रामाण्यं निश्चितमिति कारणगुणावधारंणमनर्थकमेव स्यात्, तस्य प्रामाण्यनिश्चयोत्तरकालभावित्वात्। अथापि स्यात्-एकदा सन्निकृष्टविषयाद् विज्ञानार्थक्रियासंवादतो गुणवत्तां निश्चित्यान्यदा विप्रकृष्टविषयस्यापि ज्ञानस्य संवादमन्तरेणैव कालान्तरेण गुणवत्ताया निश्चितत्वात् ततः प्रामाण्यनिश्चयो भविष्यतीति? तदेतदसम्यक्; न हि क्षणक्षयिणां भावानामेकरूपैव प्रवृत्तिः सम्भवति; अपरापरप्रत्ययोपयोगेन प्रतिक्षणं भिन्नशक्तित्वात् ? इत्येतत् सर्वमाशङ्कयाह
सितसाध्यक्रियावाप्त्या यथा शळे पुरःस्थिते। कामलाक्रान्तनेत्रोत्थं विज्ञानं नेति गम्यते॥२९९० ॥
१. गोचरम्-पा०, गा०।
२. शङ्खावभासि-पा०, गा०।
३-३. नेत्रोत्थविज्ञानं-पा०, गा०।