SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ स्वतः प्रामाण्यपरीक्षा ६६५ रिकस्येदं प्रमाणस्य लक्षणम् " प्रमाणमविसंवादि ज्ञानम्" (प्र०वा०१.३)इति । तत्र चार्थक्रियानिर्भासिज्ञानसंवेदनमेवाविसंवादः 1 तदाविर्भावे लोकस्य तथा व्यवहारात्, तदर्थत्वाच्वार्थप्रवृत्तेः । तच्च सांव्यवहारिकं ज्ञानं जाग्रदवस्थाभाव्येव; तत्रैव लोके सर्वव्यवहाराणां पारमार्थिकत्वाभिनिवेशात्, न तु स्वप्नावस्थायाम् । ततश्च – जाग्रत्प्रत्ययत्वे सतीति विशेषणस्याश्रवणान्नेतरेण व्यभिचारः । स्यादेतत्—तुल्ये सर्वाकारतः प्रतिभासे कथमयं भेदो निश्चीयते - इयं * जाग्रदवस्था, इयं स्वप्नावस्थेति ? अत आह— स्वसंविदितरूपाश्च चित्तचैत्तादिलक्षणाः । अवस्थाद्वयभेदोऽपि स्पष्टं तेन प्रतीयते ॥ २९८१ ॥ सुबोधम् ॥ २९८० - २९८१ ॥ स्यान्मतमित्यादिना परस्य चोद्यमाशङ्कते - स्यान्मतम् — परतस्तस्य प्रामाण्यस्य विनिश्चये । प्रसज्यते प्रमेयत्वमिति न त्वविरोध्यदः ॥ २९८२ ॥ यदि परतः प्रामाण्यं निश्चीयते *, तदा प्रमाणान्तरेण मीयमानत्वात् तत्प्रमेयं प्राप्नोति । न प्रमाणमेव प्रमेयं युक्तं विरोधादिति चोद्यम् । न त्वविरोध्यद इति परिहारः । अद इति एतत् । अपेक्षाभेदात् कार्यकारणपितृपुत्रव्यपदेशवदविरोधि ॥ २९८२ ॥ एतदेव दर्शयति तद्ग्राह्यवस्त्वपेक्षं हि प्रामाण्यं तस्य गीयते । परतोऽवगतेस्तस्य प्रमेयत्वव्यवस्थितिः ॥ २९८३ ॥ कार्यकारणतादिवत् । अपेक्षाभेदतश्चैवं प्रमाणत्वप्रमेयत्वव्यवस्थां न विरुध्यते ॥ २९८४ ॥ [G.785] तेन ज्ञानेन यद् ग्राह्यं वस्तु तदपेक्षया तत् प्रमाणमेव, न प्रमेयम्, व्यवस्थापकप्रमाणान्तरापेक्षया तु प्रमेयमेव न प्रमाणमिति न साङ्कर्यदोषः । यथा कार्यं कारणमिति व्यपेक्षाभेदान्न सङ्कीर्यते ॥ २९८३-२९८४ ॥ एवमित्यादिनोपसंहरति एवमर्थक्रियाज्ञानात् प्रमाणत्वविनिश्चये । नानवस्था पराकांक्षाविनिवृत्तेरिति स्थितम् ॥ २९८५ ॥ पराकाङ्क्षाविनिवृत्तेरिति । परा= अन्या चासावाकाङ्क्षा चेति विग्रहः । परस्मिन् वासंवादादन्यस्मिन् आकांक्षा पराकांक्षा, तस्या विनिवृत्तेरिति समासः । किञ्च - " प्रमाणमविसंवादि ज्ञानम्" इत्यनेनार्थक्रियाधिगमलक्षणफलप्रापकहेतोर्ज्ञानस्येदं लक्षणनुच्यते, ततश्च फलज्ञाने लक्षणानवतारात्, कथं तस्यापि प्रामाण्यमवसीयते इत्यस्य चोद्यस्यावकाशः कथं भवेत्! तथा हि—अङ्कुरस्य हेतुर्बीजमिति लक्षणे सति अङ्कुरस्यापि कथं बीजत्वमिति किं १. सर्वस्य परंत:- गा० । २-२. नन्वविरो०- पा०, गा० । ** पाठोऽयं पा०, गा० पुस्तकयोर्नास्ति । ३. फलाज्ञाने गा० ।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy