________________
६६४
तत्त्वसंग्रहे दित्यभिप्रायः । न च कृषीवलादीनामुपायनिश्चयेन प्रवृत्तैर्युक्ता प्रेक्षापूर्वकारितेति युक्तं वक्तुम्; उपेयापेक्षत्वादुपायस्य। उपेयानिश्चये तन्निश्चयायोगात् ।। २९७४ ॥ द्वितीयापि प्रवृत्तिः सत्यपि प्रामाण्यसंशये सुतरां युक्तैवेति दर्शयन्नाह
संशयेन यतो वृत्तेस्तत्प्रामाण्यविनिश्चये।
निश्चितोपायता तेन माने' सत्यपि संशये॥२९७५ ॥ यतः यस्मात् प्रामाण्यनिश्चयं प्रति संशयेन प्रवृत्तेरेवोपायता ते पुरुषेण निश्चिता, ततश्चोपायविषये संशयाभावात् प्रवृत्तियुक्तैव ॥ २९७५ ॥ कथं सा तेनोपायता निश्चिता? इत्याह
सन्देहेन' प्रवृत्तौ मे फलप्राप्तिर्भवेद् यदि। प्रामाण्यनिश्चयस्तत्र ज्ञान एवं भविष्यति॥२९७६ ॥ नान्यथेति न चाप्येवमनुयोगोऽत्र युक्तिमान्। . उपाये वर्तते कस्मादिति न ह्यन्यथागतिः॥२९७७॥ न हयुपायाद् विना कश्चिदुपेयं प्रतिपद्यते। .
इति सन्देहवृत्तोऽपि प्रेक्षावत्तां जहाति न॥२९७८ ॥ सन्देहेन प्रवृत्तोऽपीति प्रामाण्यसन्देहेन प्रवृत्तोऽपीत्यर्थः । शेषं सुबोधत्वान्न विभक्तम् ॥ २९७६-२९७८ ॥
ननु चेत्यादिना परोऽर्थक्रियाज्ञानात् प्रामाण्यनिश्चयस्यानैकान्तिकतां दर्शयन्ननवस्थामेव समर्थयते
ननु चार्थक्रियाभासि ज्ञानं स्वप्नेऽपि विद्यते।
न च तस्य प्रमाणत्वं तद्धेतोः प्रथमस्य च॥२९७९ ॥ [G.784] तद्धेतोः प्रथमस्येति । अर्थक्रियाज्ञानहेतोः । न प्रमाणत्वमिति सम्बन्धः ॥ २९७९॥ नैवमित्यादिना प्रतिविधत्ते
नैवं भ्रान्ता हि साऽवस्था सर्वा बाह्यानिबन्धना।
न बाह्यवस्तुसंवादस्तास्ववस्थासु विद्यते॥२९८०॥ यदि तावद् बाह्यार्थवादिनं बौद्धं प्रति चोद्यते तदाऽसिद्धमिति प्रथमेन श्लोकेन दर्शितम्। तथा हि-तेन बाह्यार्थवादिनाऽर्थसंवादात् प्रामाण्यमिष्टं नार्थक्रियाज्ञानसंवादात्। न च स्वप्नेऽर्थसंवादोऽस्ति; सर्वस्या एव स्वप्नावस्थाया भ्रान्तत्वेन सर्वेषामविसंवादात् । तत्र सर्वविज्ञानानामर्थमन्तरेणैवोत्पत्तेर्निर्विषयत्वम्, तेन जाग्दवस्थायां भाविन एव ज्ञानस्य प्रामाण्यलक्षणावतारान्नानेन व्यभिचारो युक्त इति भावः। किञ्च-अप्रवृत्तमपूर्वकमस्थिरं व्याकुलं च स्वप्नेऽथक्रियाज्ञानम्, तद्विपरीतं जाग्रदवस्थायामिति तथाविधस्य प्रामाण्ये कुतः स्वप्नेनानैकान्तः ! अथ योगाचारं प्रति चोद्यते, तत्रापीदं प्रकृतानुपयोगि। तथा हि-सांव्यवहा१. मान-पा०; सा च-गा०। २-२. सन्देहे नेह वृत्तौ-जै०। ३-३. ज्ञात एव-पा०, गा० । ४-४. सन्देहवृत्तौ०-पा०, गा०। ५. ०यनवस्था०-पा०, गा०। ६. बाह्यार्थ.....-पा० । ७. अप्रवृत्ति-जै०, पा०।