________________
स्वतःप्रामाण्यपरीक्षा
६६३ प्रमाणमिष्टम्, किं तर्हि ? प्रतिभासनार्थावसायं कुर्वत् । तथा हि-अर्थक्रियार्थिनोऽभिमतमर्थं प्रापयत् प्रमाणमुच्यते । न चार्थदेशं पुरुषमुपसर्पयदर्थं वा पुरुषदेशमानयत् तत्प्रापकं भवति, अपि तु पुरुषं प्रवर्तयत् । तं च पुरुषं न हस्तेन गृहीत्वा प्रवर्तयति, किं तर्हि ? प्रवृत्तिविषयमुपदर्शयत् । तच्चोपदर्शनं प्रतिभासमानार्थावसायानान्यत्। यत्र च संशयस्तत्रावश्यं प्रतिभासमानाकारावसायोऽस्ति; तदनवसाये तद्विमर्शायोगात्। ततश्चैतावता प्रत्यक्षव्यापारपरिसमाप्तेः पश्चादाविनाभावसंशयो भवन प्रत्यक्षव्यापारमुपरुणद्धीति सत्यपि संशयोदये भवत्येव प्रामाण्यं प्रत्यक्षस्य।
यत्तु प्रतिभासमानपदार्थविरुद्धाकारावसायाक्रान्तमुदेति, तन्न प्रमाणम्, यथा मरीचिकाग्राहिज्ञाने जलावसायाक्रान्तम् तत्र यथोक्तप्रमाणव्यापाराभावात्। यच्च शङ्के पीतज्ञानम्, मणिप्रभायां मणिज्ञानम्, तदप्यप्रमाणमेव; तत्र यथार्थं प्रतिभासावसाययोरभावात्। प्रतिभासवशाद्धि प्रत्यक्षस्य ग्रहणाग्रहणे, न त्वर्थाविसंवादमात्रात्। न चात्र यथास्वभावदेशकालावस्थितवस्तुप्रतिभासोऽस्ति, न वादेशकालः स एव भवति, देशकालयोरपि वस्तुस्वभावभेदकत्वात्; अन्यथा हि भेदव्यवहारोच्छेदः स्यात्।।
अनुमानस्य तु विकल्पात्मकत्वेन सामान्यविषयत्वान्न प्रतिभासवशाद् वस्तुविषयत्वव्यवस्था, वस्तुनोऽप्रतिभासात्, किं तर्हि ? निश्चयवशात् । यथोक्तम्
"निश्चयैः। यन्न निश्चीयते रूपं तत् तेषां विषयः कथम् ॥" ( प्र० वा० ३.७५ ) इति। ततश्चानुमानस्य तदाभासशून्यस्यापि नान्तरीयकार्थदर्शनबलेनोत्पत्तेः पारम्पर्येण वस्तुनि प्रतिबन्धात् प्रामाण्यमित्यवश्यं तत्राविनाभावनिश्चयोऽपेक्षणीयः; अन्यथा अनुमानस्योत्पत्त्यसम्भवादिति नानुमानतुल्यं प्रत्यक्षम् ॥ २९७२ ॥ नन्क्त्यिादिना परः परतःप्रामाण्ये सतीतरेतराश्रयत्वमुद्भावयति
ननु तस्य प्रमाणत्वे विज्ञानास्याविनिश्चिते।
कथं तत्र प्रवर्तेत प्रेक्षावानीप्सितागतेः?॥२९७३॥ तथा हि-प्रेक्षापूर्वकारिणः प्रामाण्यनिश्चये सतिं प्रवृत्त्या भवितव्यम्, प्रवृत्तौ च सत्यां प्रामाण्यनिश्चय इतीतरेतराश्रयात् कथं प्रेक्षावत ईप्सितार्थाविनिश्चये सति प्रवृत्तिः स्यात् ॥ २९७३॥ उच्यत इत्यादिना प्रतिविधत्ते
उच्यते-संशयेनैव वर्त्ततेऽसौ विचक्षणः ।
वैचक्षण्यक्षतिस्तस्य न चैवमनुषज्यते॥२९७४॥ द्विविधा हि प्रवृत्तिः-अर्थक्रियार्था, प्रामाण्यनिश्चयार्था च । तत्राद्या प्रवृत्तिः सत्यपि संशये यथा भवति तथा प्रतिपादितम् प्रतिभासमानार्थावसायमात्रेणैव प्रत्यक्षस्य प्रवर्तकत्वात्। तेन वैचक्षण्यक्षतिरेवं सति नानुषज्यते, अर्थसंशयेनापि कृषीवलादीनामिव प्रवृत्तिदर्शना१. कुर्वन्तु-पा०, गा०। २. नरादेश-पा०।