________________
तत्त्वसंग्रहे
परलिङ्गान्तरमनुसरतोऽनवस्था स्यात् । अथापि स्यात् - अभ्यासबलादेव प्रत्यक्षतो लिङ्गानुसरणमन्तरेणापि स्वत एव सा सिद्धेति ? एवं तर्हि यद्यभ्यासस्येदृशं सामर्थ्यमभ्युपगम्यते, तदा 'शक्तिनिश्चयोऽप्यभ्यासबलादेवान्तरेणापि लिङ्गानुसरणं भवतीति किं नाभ्युपगम्यते ! किञ्चयदि तत्कार्यता सिद्धा ज्ञानस्य, तदा व्याप्त्यनुसरणमनर्थकम्; तत्कार्यतावसायादेव तदर्थप्रापणशक्तिसिद्धेः, अनुमानज्ञानवत् । यथानुमानज्ञानस्य वस्तुप्रतिबद्धलिङ्गदर्शनबलेनोत्पत्तेः पारम्पर्येण वस्तुकार्यतावसायादेव स्वतः प्रामाण्यं न सारूप्यबलादन्यथा ह्यनवस्था स्यात्; तथेहापि स्वत
प्रामाण्यं [G.781] स्यात् । तथा हि-यत्र पक्षधर्मत्वनिश्चयेऽपि साध्यार्थप्रतीतिर्न जायते, तत्र दृष्टान्तधर्मिणि व्याप्तिमनुसरेत् प्रतिपत्ता, यथा कृतकत्वानित्यत्वयोः । इह तु ज्ञानस्य तत्कार्यतावसायादेव' तदर्थाव्यभिचारितया तत्प्रापणशक्तिः सिद्धेति ताद्रूप्यं लिङ्गम् ।
यद्येवम्, कथमुक्तमाचार्येण लोकायतमधिकृत्य - " स खलु 'प्रत्यक्षं प्रमाणं नानुमानम्' इति ब्रुवाणः कासाञ्चिद् व्यक्तीनां प्रवृत्तौ संवादं विसंवादं चोपलभ्य तल्लक्षणं व्याप्त्या कथयेद् यथोपदेशं प्रवर्त्तमानस्याविप्रलम्भार्थम्, तद् यथादृष्टसाधर्म्यात् तथा प्रसाधितमनुमेयतां नातिपतति' ( ) इति ? नैष दोषः ; स्वपरसन्तानवर्त्तिनीरनुभूतविषया बुद्धीरंधिकृत्यैतदुक्तम्;‘अन्यत्रानुभूतविषयाभ्यः' इति वचनात् । अन्यथा हि यदि सारूप्यात् सर्वत्र प्रामाण्यं निश्चीयते, तदान्यत्रानुभूतविषयाभ्य इति प्रतिषेधोऽनर्थकः स्यात् । तस्मादभ्यासबलात् प्रोत्सारितभ्रान्तिनिमित्तमुपजायते यत् तत्स्वत एव प्रमाणमिति स्थितम् ॥ २९६८ ॥ यदुक्तम्–“यथैव प्रथमज्ञानं तत्संवादमपेक्षते " (तत्त्व० २८५३) इत्यादि, तत्राह— वैलक्षण्याप्रतीतौ तु विजातीयार्थसङ्कया । कार्यावभासिविज्ञानाद् ऋते मानाविनिश्चयः ॥ २९६९ ॥ तस्मिन् सदपि मानत्वं विनिश्चेतुं न शक्यते । उत्तराद्यक्रियाज्ञानात् केवलं तत् प्रतीयते ॥ २९७० ॥ अतश्च प्रथमं ज्ञानं तत्संवादमपेक्षते । संवादेनापि संवादः पुनर्मृग्यस्तथैव न ॥ २९७१ ।। यत्र ह्यनुभूतमपि प्रामाण्यं भ्रान्तिकारणसद्भावाद्विनिश्चेतुं न शक्यते, तत्र परतोऽर्थक्रियाज्ञानान्निश्चीयते, तावन्मात्रेणैव च पुरुषस्याभीष्टार्थसंसिद्धेराकांक्षा विनिवृत्तेति न पुनः संवादेनाप्यपरः संवादस्तथैव = आद्यज्ञानवदपेक्षणीयः ॥ २९६९-२९७१ ॥
६६२
“कस्यचित्तु यदीष्येत” (तत्त्व० २८५४) इत्यादावाहभ्रान्तिहेतोरसद्भावात् स्वतस्तस्य प्रमाणता ।
प्रथमस्य तदाभावे प्रद्वेषो भ्रान्तिसम्भवात् ॥ २९७२ ।।
ननु च यत् सन्दिग्धार्थाविनाभावित्वेनानिश्चितार्थप्रापणसामर्थ्यज्ञानम्,तदनुमानवन्न प्राप्नोति । तथा हि- अनुमानस्यार्थाविनाभावसंशये सति न प्रामाण्यमिष्टम् [G. 782] एवं प्रत्यक्षेऽपि न प्राप्नोति ? नैष दोष:, न ह्यनुमानवदर्थनान्तरीयकमात्मानमुपदर्शयत् प्रत्यक्षं
२. तत्कार्यस्याव० - पा०, गा० ।
९ मुक्तिनिश्चयो - पा० ।
३. उत्तरार्थकिया - जै० पुस्तके पाठा ।