________________
स्वतःप्रामाण्यपरीक्षा
६६१ वाऽग्निरेवासौ, कुतः? दाहपाकादिकार्योत्पत्तिहेतुत्वमात्रलक्षणत्वात्। विभावसो:वढेरित्यर्थः ॥ २९६२-२९६४॥ .. तस्मादित्यादिनोपसंहरति
तस्मादर्थक्रियाभासं ज्ञानं यावन्न जायते।
तावदाद्येऽप्रमाशङ्का जायते भ्रान्तिहेतुतः ॥२९६५॥ ननु चार्थक्रियाज्ञानवदाद्यमपि ज्ञानं साक्षादग्न्यादिपदार्थजनितमेव, तत्किमिति तत्रैवाप्रमाण्याशङ्का, नोत्तरत्र? इत्याशङ्कयाह
अनन्तरं फलादृष्टिः सादृश्यस्योपलम्भनम्।
मतेरपटतेत्यादि . भ्रान्तिकारणमत्र च॥२९६६॥ __ कार्यावभासिविज्ञाने जाते त्वेतन्न विद्यते।
साक्षाद् वस्तुनिबद्धायाः क्रियायाः प्रतिवेदनात्॥२९६७॥ आद्ये हि ज्ञाने भ्रान्तिकारणमस्ति, तथा हि तदनन्तरं दाहादिलक्षणस्य [G.780] फलस्यानुत्पादो भ्रान्तज्ञानसाधर्म्यं च बुद्धेरपाटवम्। आदिशब्देन अनादरः, अनभ्यास इत्यादि गृह्यते। फलज्ञाने तु न किञ्चिद् भ्रान्तिकारणं विद्यत इति तस्य स्वत एव निश्चयः ॥ २९६६-२९६७॥
आद्येऽपि ज्ञाने यत्राभ्यासादिना प्रोत्सारितं भ्रान्तिनिमित्तम्, तस्य स्वत एव प्रामाण्यमिति दर्शयन्नाह
वृत्तावभ्यासवत्यां तु वैलक्षण्यं प्रतीयते। .: अतद्विषयतो ज्ञानादाद्येऽप्राप्तेऽपि तत्फले॥२९६८॥ . अभ्यासबलेन यथा योगिनां मणिरूप्यादिषु वा तद्विदां दूरीकृतभ्रान्तिनिमित्तमेव स्फुटप्रतिभासं प्रजायते विज्ञानम्, एवमन्यत्राप्यभ्यासबलात् स्फुटतरप्रतिभासतया निरस्तविभ्रमाशङ्कमुपजायमानमव्यवधानेन सजातीयसाधारणाध्यवसायिनं परामर्शप्रत्ययं जनयद् विजातीयतोऽतद्विषयाद् व्यावृत्तमवसीयत इति स्वत एव तस्य प्रामाण्यमुच्यते।
यस्तु मन्यते-"अभ्यासवत्यामपि प्रवृत्तौ तांद्रूप्यलक्षणलिङ्गदर्शनादनुमानत एवार्थप्रापणशक्तिलक्षणप्रामाण्यनिश्चय इति सर्वत्र परतःप्रामाण्यावसायः, न क्वचिदेव स्वतः" इति, तन्न बुद्ध्यामहे; तथा हि-असङ्कीर्णताद्रूप्यलक्षणलिङ्गनिश्चय एव कुतो भवति? इति वक्तव्यम्। अभ्यासादिति चेत् ? एवं तर्हि यद्यभ्यासबलाद् विजातीयाकारव्यवच्छेदेन सजीतायसाधारणमसङ्कीर्णं सारूप्यमवसीयते भ्रान्तिकारणाभावात्, कः प्रामाण्ये प्रद्वेषो येन तदनुभूतं भ्रान्तिकारणविरहेऽपि नाध्यवसीयत इति स्यात्!
अपि च-किमिदं सारूप्यं नाम? यदि बोधरूपता, सा मिथ्याज्ञानेऽप्यस्तीत्यनैकान्तिकता हेतोः । अथ लोहिताकारनि सिता? साऽशोकस्तबकादिग्राहिविज्ञाने विद्यत इति व्यभिचार एव । अथाग्न्यादिपदार्थकार्यता? सा कथं निश्चितेति वक्तव्यम् ? तत्सिद्ध्यर्थम१. पा०, गा० पुस्तकयोस्ति । .. २. दाद्ये प्राप्ते-पा० । ४. न परामर्श-पा०।
५. तदनुभूतं तौ-गा।
३. ०मध्यवधानन-पा०।