________________
६६०
तत्त्वसंग्रहे ननु कोऽतिशयस्तस्य प्राक्तनादस्ति येन तत्।
परतः पूर्वविज्ञानमिव नाभ्युपगम्यते ?॥२९५७॥ उच्यत इत्यादिना प्रतिविधत्ते
उच्यते-वस्तुसंवादे प्रामाण्यमभिधीयते। . तस्य चार्थक्रियाभ्यासज्ञानादन्यन्न लक्षणम्॥२९५८॥ अर्थक्रियावभासं च ज्ञानं संवेद्यते स्फुटम्। निश्चीयते च तन्मात्रभाव्यामर्शनचेतसा॥ २९५९॥ अतस्तस्य स्वतः सम्यक्प्रामाण्यस्य विनिश्चयात्। नोत्तरार्थक्रियाप्राप्तिप्रत्ययः समपेक्ष्यते ॥ २९६०॥ ज्ञानप्रमाणभावे च तस्मिन् कार्यावभासिनि।
प्रत्यये प्रथमेऽप्यस्माद्धेतोः प्रामाण्यनिश्चयः ।। २९६१॥ अयमत्र सक्षेपार्थ:-प्रमाणं हि नामाविसंवादि ज्ञानमुच्यते, "प्रमाणमविसंवादि ज्ञानम्" (प्र० वा० १.३) इति वचनात् । न चाविसंवादोऽर्थक्रियालक्षण एव, तदर्थत्वात् प्रमाणचिन्तायाः; यतोऽर्थक्रियार्थी प्रमाणमप्रमाणं वाऽन्वेषते प्रेक्षावान्न व्यसनितया। सा चार्थक्रिया दाहपाकादिनिर्भासज्ञानोदयलक्षणा; तदुत्पादादेवार्थक्रियार्थिनः प्रवृत्तस्याकांक्षानिवृत्तेः । तच्चार्थक्रियाज्ञानमात्मसंवेदनप्रत्यक्षतया स्वयमेवाविर्भवति, स्पष्टानुभवत्वाच्चानन्तरं यथानुभवं परामर्शज्ञानोत्पत्त्या निश्चितमिति स्वत एव सिद्धम् । न च तत्साध्यं फलान्तरमाकांक्षितं पुरुषेण, येनापरमर्थक्रियानि सि प्रत्ययान्तरोदयमनुसरतोऽनवस्था स्यात् । तथा हि-लोके वृद्धिच्छेदादिकं फलमभिवाञ्छितम् [G.779] तच्चाह्लादपरितापादिरूपज्ञानाविर्भावादेवाभिनिवृत्तमित्येतावतैवाहितसन्तोषा निवर्तन्ते जना इति स्वत एव तस्य सिद्धिरुच्यते । यत् पुनः पूर्वकं तत् कारणभूतं ज्ञानं तस्य न तत्प्रापणशक्तिः प्रामाण्यमुच्यते। सा च शक्तिरनभ्यासादविदितकार्यैरवधारयितुं न शक्यत इत्युत्तरकार्यज्ञानप्रवृत्त्या निश्चीयत इति प्रथमस्य परत:प्रामाण्यमुच्यते ॥ २९५८-२९६१॥ पुनरप्यनवस्थां प्रकारान्तरेण परिहरन्नाह
आये ह्यवस्तुविषये वस्तुसंवादलक्षणम्। द्वितीयं न प्रवर्तेत यस्य हेतोरसम्भवात्॥ २९६२॥ अशोकस्तबकादौ हि पावकाध्यवसायिनः। न दाहपाकिनि सि विज्ञानं जातु जायते॥ २९६३॥ जातौ वा न विजातीयं ज्वलनात् तत् प्रसज्यते।
तत्कार्ययोग्यतामात्रलक्षणत्वाद् विभावसोः ॥ २९६४॥ यदि हि-आद्यम्-प्रथमं ज्ञानमवस्तुनि प्रवृत्तिमभविष्यत्, तदा फलक्षानमुत्तरकालभावि नोदपत्स्यत; कारणाभावात्. वस्तुप्रतिबद्धत्वादर्थक्रियाज्ञानस्य। न ह्यनग्निग्राहिणो ज्ञानादशोकस्तबकादावग्न्यध्यवसायेन प्रवृत्तस्य दाहपाकादिनिर्भासिनः प्रत्ययाः प्रसूयन्ते। प्रसवे
२. सद्धिच्छेदा.- पा० ३. च-गा०। ४. हि वस्तु-पा०, गा० ।