________________
स्वतःप्रामाण्यपरीक्षा
६५९ नियते'. यस्य' नैवास्ति स्वतःप्रामाण्यनिश्चयः। पारिशेष्यबलात्ने तस्मिन्नप्रामाण्यं प्रतीयते॥२९५१॥ अर्थान्यथात्वहेतूत्थदोषज्ञानानपेक्षया । जन्मानन्तरमेवातस्तदप्रामाण्यनिश्चयात् ॥२९५२॥ अप्रमाणे प्रमाणत्वविपर्यासो न सङ्गतः।
अतोऽसंवादिनो नैव कश्चिद् वर्तेत तद्गतेः॥२९५३॥ इदमत्र विवक्षितम्-यदि भवता सर्वप्रमाणानां स्वतःप्रामाण्यमभ्युपगम्यते, तदा प्रामाण्यनिश्चयोत्पादेन प्रमाणं व्याप्तमित्यभ्युपगतं स्यात्। ततश्च यत्रैव प्रमाणव्यापक: प्रामाण्यनिश्चयो नोदेति, तत्र सामर्थ्यात्प्रामाण्यमवतिष्ठते ; प्रमाणाप्रमाणयोः परस्परव्यवच्छेदरूपत्वात् । ततश्चाप्रामाण्यमपि स्वत एव सामर्थ्यादापतितम्; विसंवादकारणदोषपरिज्ञानानपेक्षणात्', प्रामाण्यनिश्चयानुत्पत्तेरेवाप्रामाण्यस्य निश्चितत्वात्। ततश्च यदुक्तम्-"निश्चयः परतस्तस्य बाधकात् प्रत्ययान्मतः" (तत्त्व० २९४८) इति, तन्नोपपद्यते। एवं च सति जन्मोत्तरमेवर्ष प्रामाण्यनिश्चयोत्पादानुत्पादाभ्यां प्रमाणेतरयोनिश्चितत्वादप्रमाणात् परिनिश्चिता नैव कस्यचित् प्रेक्षावतः प्रवृत्तिरेव सम्भवतीति कुतो विसंवादसम्भव इति। तद्गतेरिति विसंवादित्वगतेः, निश्चयादित्यर्थः।
. एते च प्रतिज्ञादोषोद्भावनमुखेन हेतोरव्याप्तिप्रकाशनाद् हेतुदोषा एव द्रष्टव्याः, न तु प्रतिज्ञादोषाः; अन्यथा हि प्रतिज्ञाया असाधनाङ्गत्वात् तद्दोषोद्भावनं प्रतिवादिनो निग्रहस्थानं स्यात् ॥ २९५०-२९५३॥ घटादिवदिति दृष्टान्तस्यासिद्धि प्रतिपादयन्नाह. जन्मातिरिक्तकालश्च क्रियाकालो न विद्यते।
क्षणिकत्वाद् घटादीनामित्यसिद्धं निदर्शनम् ॥२९५४॥ ननु च जन्मोत्तरकालं घटादयो दृश्यन्त एव कुलालाद्यनपेक्षा मधूदकाद्यर्थक्रियाकारिणः, तत् कथं तेषां जन्मातिरिक्तः कालो न विद्यते? इत्याह
तेषामुत्तरकालं हि कुलालाद्यनपेक्षिणाम्।
. स्वोपादानाद्यपेक्षत्वात् स्वतो नास्ति प्रवर्तनम् ॥२९५५॥ [G.778] स्वोपादानम्-पूर्वः पूर्वः सजातीय क्षणः । आदिशब्देन तद्धारकपुरुषादिपरिग्रहः। एतदुक्तं भवति-उत्तरकालमन्य एव घटादिक्षणा: स्वोपादानद्यपेक्षा वर्तमाना दृश्यन्ते, न तु कस्यचिजन्मोत्तरकालमवस्थितिः सिद्धा; क्षणिकत्वात् सर्वभावानामिति ॥ २९५५ ॥
"यथैव प्रथमं ज्ञानम्" (तत्त्व० २८५३) इत्यादावाह.. न चानवस्थितिप्राप्तिरन्यतो मानसंश्रितो।
यस्मादर्थक्रियाज्ञाने स्वतः प्रामाण्यनिश्चयः ॥२९५६॥ - परः प्रत्यवतिष्ठते१. नियतो-गा०। २. यथ-पा०; यत्र-गा। ३. परिशेषबलात्-पा०, गा०। ४. अप्रामाण्य०-०, पा० । ५. ०ज्ञानादपेक्ष-पा०। ६. जन्मान्तरमेक-जै०। ७. प्रामाण्येतर०-पा०, गा०। ८. तस्माद०-गा।